११७

अन्ते च—

त्वम् अप्य् अदभ्र-श्रुत विश्रुतं विभोः
समाप्यते येन विदां बुभुत्सितम् ।
प्राख्याहि दुःखैर् मुहुर् अर्दितात्मनां
सङ्क्लेश-निर्वाणम् उशन्ति नान्यथा ॥ [भा।पु। १.५.४०]

विदां विदुषाम् ॥

॥ १.५ ॥ श्री-नारदः श्री-व्यासम् ॥ ११६-११७ ॥