११६

श्री-नारदेनापि तन् महा-पुराणाविर्भावनार्थं तथैवोपदिष्टम्—

अथो महा-भाग भवान् अमोघ-दृक्
शुचि-श्रवाः सत्य-रतो धृत-व्रतः ।
उरुक्रमस्याखिल-बन्ध-मुक्तये
समाधिनानुस्मर तद्-विचेष्टितम् ॥ [भा।पु। १.५.१३]

अथो अतो नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् [भा।पु। १.५.१२] इत्य्-आद्य्-उक्तेः कारणात् । अत्र विचेष्टितानुस्मरणेनाखण्डैव भक्तिर् लक्ष्यते ॥