इयम् एव भक्तिः धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सताम् [भा।पु। १.१.२] इत्य् अत्रोक्ता । अत्र सर्गो विसर्गश् च [भा।पु। २.१०.१] इत्य्-आदौ दश-लक्षण्याम् अपि सद्-धर्म[२.१०.४] इत्य् एक-लक्षणत्वेनोक्ता । तस्या अभिधेयत्वं श्री-भागवत-बीज-रूपायां चतुः-श्लोक्याम् अप्य् उदाहृतम् ।
एतावद् एव जिज्ञास्यं तत्त्व-जिज्ञासुनात्मनः ।
अन्वय-व्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ [भा।पु। २.९.३५]
पूर्वं हि ज्ञान-विज्ञान-रहस्य-तद्-अङ्गानि वक्तव्यत्वेन चत्वार्य् एव प्रतिज्ञातानि । तत्र चतुः-श्लोक्याः प्राक्तनास् त्रयोऽर्था अपि भगवत्-सन्दर्भे [९६] क्रमेणैव प्राक्तन-श्लोक-त्रये व्याख्याताः । रहस्य-शब्देनात्र प्रेम-भक्तिः, तद्-अङ्ग-शब्देन साधन-भक्तिर् उच्यते । टीका च—रहस्यं भक्तिस् तद्-अङ्गं साधनमित्य् एषा ।
ततः क्रम-प्राप्तत्वेन—
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भा।पु। ११.१४.३]
इति भगवद्-वाक्यानुसारेण च चतुर्थेऽस्मिन् पद्ये साधन-भक्तिर् एव व्याख्याता । अत्र च पुनर्1 व्याख्या-विवरणायोत्थाप्यते । तथा हि—आत्मनो मम भगवतः । तत्त्व-जिज्ञासुना प्रेम-रूपं रहस्यम् अनुभवितुम् इच्छुना एतावन्-मात्रं जिज्ञासितव्यं, श्री-गुरु-चरणेभ्यः शिक्षणीयम् । किं तत् ? यद् एकम् एव अन्वयेन विधि-मुखेन व्यतिरेकेण निषेध-मुखेन च स्याद् उपपद्यते ।
तत्रान्वयेन, यथा—एतावान् एव लोकेऽस्मिन् [भा।पु। ६.३.२२] इत्य्-आदि, मन्-मना भव मद्-भक्तः [गीता ९.२४] इत्य्-आदि च ।
व्यतिरेकेण यथा—
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ [भा।पु। ११.५.२-३]
न मां दुष्कृतिनो मूढा [गीता ७.१५] इत्य्-आदि ।
यावज् जनो भजति नो भुवि विष्णु-भक्ति-
वार्ता-सुधा-रसम् अशेष-रसैक-सारम् ।
तावज् जरा-मरण-जन्म-शताभिघात-
दुःखानि तानि लभते बहु-देहजानि ॥ [प।पु। ५.८५.३३] इति पद्म-पुराणे च ।
कुत्र कुत्रोपपद्यते ? सर्वत्र शास्त्र-कर्तृ-देश-करण-द्रव्य-क्रिया-कार्य-फलेषु समस्तेष्व् एव । तत्र
(१) समस्त-शास्त्रेषु, यथा स्कान्दे ब्रह्म-नारद-संवादे—
संसारेऽस्मिन् महा-घोरे जन्म-मृत्यु-समाकुले ।
पूजनं वासुदेवस्य तारकं वादिभिः स्मृतम् ॥
तत्राप्य् अन्वयेन यथा—भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया [भा।पु। २.२.३४] इत्य्-आदि । तथा पाद्मे स्कान्दे च—
आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ [लि।पु। २.७.११]इति ।
व्यतिरेकेण, यथा गारुडे—अन्तंगतोऽपि2 वेदानाम् [ग।पु। १.२३१.१७]इत्य्-आदिकं सर्वत्रावगन्तव्यम् । तच् चान्ते दर्शयिष्यते ।
सर्व-कर्तृषु, यथा—
ते वै विदन्त्य् अतितरन्ति च देव-मायां
स्त्री-शूद्र-हूण-शबरा अपि पाप-जीवाः ।
यद्य् अद्भुत-क्रम-परायण-शील-शिक्षास्
तिर्यग्-जना अपि किम् उ श्रुत-धारणा ये ॥ [भा।पु। २.७.४६] इति ।
गारुडे—
कीट-पक्षि-मृगाणां चहरौ सन्न्यस्त-चेतसाम् ।
ऊर्ध्वम् एव गतिं मन्ये किं पुनर् ज्ञानिनां नॄणाम् ॥ [ग।पु। १.२३४.३१]
अत्रैव साचारे दुराचारे, ज्ञानिन्य् अज्ञानिनि, विरक्ते रागिणि, मुमुक्षौ मुक्ते, भक्त्य्-असिद्धे भक्ति-सिद्धे, तस्मिन् भगवत्-पार्षदतां प्राप्ते, तस्मिन् नित्य-पार्षदे च सामान्येन दर्शनाद् अपि सार्वत्रिकता ।
तत्र साचारे दुराचारे यथा—
अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ [गीता ९.३०] इति ।
सद्-आचारस् तु किं वक्तव्य इत्य् अपेर् अर्थः ।
ज्ञानिन्य् अज्ञानिनि च—ज्ञात्वाज्ञात्वाथ ये वै माम् [भा।पु। ११.११.३३] इत्य्-आदि । हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः [ना।पु। १.११.१००]इत्य्-आदि ।
विरक्ते रागिणि च—
बाध्यमानोऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ [भा।पु। ११.१४.१८] इति ।
अबाध्यमानस् तु सुतरां नाभिभूयत इत्य् अपेर् अर्थः ।
मुमुक्षौ मुक्ते च—मुमुक्षवो घोर-रूपान् [भा।पु। १.२.२६] इत्य्-आदि । आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदि ।
भक्त्य्-असिद्धे भक्ति-सिद्धे च—
केचित् केवलया भक्त्या वासुदेव-परायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ [भा।पु। ६.१०.१५] इति ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि स वैष्णवाग्र्यः ॥ [भा।पु। ११.२.५३] इति ।
भगवत्-पार्षदतां प्राप्ते—
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [भा।पु। ९.४.६७] इति ।
नित्य-पार्षदे—
वापीषु विद्रुम-तटास्व् अमलामृताप्सु
प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् ।
अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम्
उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः ॥ [भा।पु। ३.१५.२२]3
सर्वेषु वर्षेषु भुवनेषु ब्रह्माण्डेषु तेषां बहिश् च तैस् तैः श्री-भगवद्-उपासनायाः क्रियमाणायाः श्री-भागवतादिषु प्रसिद्धिः सिद्धैवेति सर्व-देशोदाहरणं ज्ञेयम् ।
सर्वेषु करणेषु यथा—
मानसेनोपचारेण परिचर्य हरिं मुदा ।
परेऽवाङ्-मनसागम्यं तं साक्षात् प्रतिपेदिरे ॥ इत्य्-आदि ।
एवं-भूत-वचने हि, अस्तु तावद्बहिर्-इन्द्रियेण, मनसा वचसापि तत्-सिद्धि-प्रसिद्धिः4 ।
सर्व-द्रव्येषु यथा—
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ [गीता ९.२६, भा।पु। १०.८१.४] इति ।
सर्व-क्रियासु यथा—
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहोऽपि हि ॥ [भा।पु। ११.२.१२]
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७]
एवं भक्त्य्-आभासेषु भक्त्य्-आभासापराधेष्व् अपि अजामिल-मूषिकादयो दृष्टान्ता गम्याः ।
सर्वेषु कार्येषु यथा—
यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु ।
नूनं सम्पूर्णतां याति सद्यो वन्दे तम् अच्युतम् ॥[स्कान्दे] इति ।
सर्व-फलेषु यथा—अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः [भा।पु। २.३.१०] इत्य्-आदि। तथा, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य्-आदि-वाक्येन हरि-परिचर्यायां क्रियमाणायां सर्वेषाम् अन्येषाम् अपि देवादीनाम् उपासना स्वत एव सिध्यतीत्य् अतोऽपि सार्वत्रिकता । यथोक्तं स्कान्दे ब्रह्म-नारद-संवादे—
अर्चिते देव-देवेश शङ्ख-चक्र-गदाधरे ।
अर्चिताः सर्व-देवाः स्युर् यतः सर्व-गतो हरिः ॥इति ।
एवं यो भक्तिं करोति, यद् गवादिकं भगवते दीयते, येन द्वार-भूतेन भक्तिः क्रियते, यस्मै श्री-भगवत्-प्रीणनार्थं दीयते, यस्माद् गवादिकात् पय-आदिकम् आदाय भगवते निवेद्यते, यस्मिन् देशादौ कुले वा कश्चिद् भक्तिम् अनुतिष्ठति, तेषाम् अपि कृतार्थत्वं पुराणेषु दृश्यते इति कारक-गतापि । एवं सार्वत्रिकत्वं साधितम् ।
सदातनत्वम् आह—सर्वदेति । तत्र सर्गादौ यथा—कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता [भा।पु। ११.१४.३] इत्य्-आदि, सर्ग-मध्ये बहुत्रैव ।
चतुर्विध-प्रलयेष्व् अपि—तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते [भा।पु। ३.७.३७] इति विदुर-प्रश्ने ।
सर्वेषु युगेषु—
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ [भा।पु। १२.३.५२] इति ।
किं बहुना ?—
सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः ।
यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ इति वैष्णवे5 ।
सर्वावस्थास्व् अपि—गर्भे श्री-नारद-कारित-श्रवणे प्रह्लादे प्रसिद्धम् । बाल्ये श्री-ध्रुवादिषु । यौवने श्रीमद्-अम्बरीषादिषु । वार्धक्ये धृतराष्ट्रादिषु । मरणेऽजामिलादिषु । स्वर्गितायां श्री-चित्रकेत्व्-आदिषु । नारकितायाम् अपि—
यथा यथा हरेर् नाम कीर्तयन्ति स्म नारकाः ।
तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः ॥ [नृ।पु। ८.३१] इति श्री-नृसिंह-पुराणात् ।
अत एवोक्तं दुर्वाससा—मुच्येत यन्-नाम्न्य् उदिते नारकोऽपि [भा।पु। ९.४.६२] इति । यथा—
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥ [भा।पु। २.१.११] इत्य् अत्रापि ।
अथ तत्र तत्र व्यतिरेकोदाहरणानि च कियन्ति दर्श्यन्ते—
किं वेदैः किम् उ शास्त्रैर् वा किं वा तीर्थ-निषेवणैः ।
विष्णु-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः ॥ [ना।पु। १.३०.१११] इति ।
किं तस्य बहुभिः शास्त्रैः किं तपोभिः किम् अध्वरैः ।
वाजपेय-सहस्रैर् वा भक्तिर् यस्य जनार्दने ॥
इति बृहन्-नारदीय-पाद्म-वचनादीनि ।
तपस्विनो दान-परा यशस्विनो
मनस्विनो मन्त्र-विदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यद्-अर्पणं
तस्मै सुभद्र-श्रवसे नमो नमः ॥ [भा।पु। २.४.१७]
न यत्र वैकुण्ठ-कथा-सुधापगा
न साधवो भागवतास् तदाश्रयाः ।
न यत्र यज्ञेश-मखा महोत्सवाः
सुरेश-लोकोऽपि न वै स सेव्यताम् ॥ [भा।पु। ५.१९.२४]
ययाच आनम्य किरीट-कोटिभिः
पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् ।
सिद्धार्थ एतेन विगृह्यते महान्
अहो सुराणां च तमो धिग् आठ्यताम् ॥ [भा।पु। १०.५९.४१]
सालोक्य-सार्ष्टि-सालोक्य- [भा।पु। ३.२९.१३] इत्य्-आदि, नो दानं नो तपो नेज्या [भा।पु। ७.७.५२] इत्य्-आदि। नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् [भा।पु। १.५.१२, १२.१२.५२] इत्य्-आदि । नात्यन्तिकं विगणयन्त्य् अपि ते [भा।पु। ३.१५.४८] इत्य्-आदि च ।
अथ सदा सर्वत्र यद् उपपद्यतेइत्य्-आदि योजनिकार्थो युगपद्, यथा—तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा [भा।पु। २.२.३६] इत्य्-आदि ।
अन्वय-व्यतिरेकाभ्यां सदा यद् उपपद्यते इत्य् अत्र, यथा—
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ [प।पु। ६.७१.१००]6 इति ।
अन्वय-व्यतिरेकाभ्यां सदा सर्वत्र यद् उपपद्यते इति साकल्येऽपि, यथा—न ह्य् अतोऽन्यः शिवः पन्थाः [भा।पु। २.२.३३] इत्य् उपक्रम्य, तद्-उपसंहारे—
तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नॄणाम् ॥ [भा।पु। २.२.३६] इति ।
नॄणां जीवानां, इति नृ-गतिं विविच्य कवयः [भा।पु। १०.८७.१६] इतिवत् ।
एतद् उक्तं भवति—यत् कर्म तत् सन्न्यास-भोग-शरीर-प्राप्त्य्-अवधि । योगः सिद्ध्य्-अवधिः । साङ्ख्यम् आत्म-ज्ञानावधि । ज्ञानं मोक्षावधि । तथा तथा तत्-तद्-योग्यतादिकानि च सर्वाणि । एवं-भूतेषु तेषु7 कर्मादिषु शास्त्रादि-व्यभिचारिता ज्ञेया । हरि-भक्तेस् तु अन्वय-व्यक्तिरेकाभ्यां सदा सर्वत्र तत्-तन्-महिमभिर् उपपन्नत्वात् तथा-भूतस्य रहस्यस्याङ्गत्वं युक्तम् । अतो रहस्याङ्गत्वेन च ज्ञान-रूपार्थान्तराच्छन्नतयैवेदम् उक्तम् इति ।
तद् एवं श्री-भागवतं सङ्क्षेपेणोपदेक्ष्यन्तं श्री-नारदं श्री-ब्रह्मापि तथैव सङ्कल्पं कारितवान्, यथा—
यथा हरौ भगवति नृणां भक्तिर् भविष्यति
सर्वात्मन्य् अखिलाधारे इति सङ्कल्प्य वर्णय ॥ [भा।पु। २.७.५२]
भविष्यति अवश्यं भवेद् इति इमं प्रकारं, सङ्कल्प्य नियमेनाङ्गीकृत्य ।
॥ २.७ ॥ श्री-ब्रह्मा नारदम् ॥ ११५ ॥
-
पूर्व- ख, च। ↩︎
-
पारङ्गतोऽपि वेदानां (नोत् ख, ग, च) ↩︎
-
इत्य् अस्मात् परं—अङ्ग हे देवाः, यद् यस्मिल् लोके श्रीर् एवम् अमत अमंस्त मेने । किं कुर्वती ? विद्रुम-मयानि तटानि यासाम् । अमला अमृत-तुल्या आपो यासां तासु वपीषु निज-वने लक्ष्मीवने परिचारिकाभिर् अन्विता तुलसीभिः श्री-विष्णुं पूजयन्ती । तदोदके प्रतिबिम्बितं शोभनालक-युक्तम् उत्कृष्ट-नासिका-युक्तं च स्व-वक्त्रं वीक्ष्य भगवता उच्छेषितं चुम्बितम् इत्य् अमन्यत । अनेन लक्ष्म्या अपि सौभाग्य-सुखं भगवद्-अनुग्रहेणैवेति द्योतितम् ॥ [श्रीधर-स्वामिनष् ;तीका, ख-कर-लिप्यां प्राप्ता ॥] ↩︎
-
तत्-सिद्धिर् इति प्रसिद्धिः (ग, च, य, र्र्) ↩︎
-
गरुड-पुराणे १.२.२.२२। ↩︎
-
थे रेअदिन्ग् थेरे हस् इन् थे लस्त् क़ुअर्तेर् एतस्यैव विधिङ्कराः। ↩︎
-
एवं तेषु… र्र् ↩︎