तद् एवम् अवान्तर-तात्पर्येण भक्तेर् एवाभिधेयत्वं षड्-विधैर् अपि लिङ्गैर् अवगम्यते ।1
- तत्रोपक्रमोपसंहारयोर् एक्तवेन, यथा—जन्माद्य् अस्य यतः [भा।पु। १.१.१] इत्य्-आदाव् उपक्रम-पद्ये सत्यं परं धीमहि इति । अत्र श्री-गीतासु, एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते [गीता १२.१] इत्य्-आदौ श्री-भगवत्य् एव ध्यानस्याकष्टार्थत्वेन तद्-ध्यानिनो युक्ततमत्वेन चोक्तत्वात् । मत्तः परतरं नान्यत् किञ्चित् [गीता ७.७] इत्य्-आदौ, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.७] इत्य्-आदौ च परत्वस्य श्री-भगवद्-रूप एव पर्यवसानात्, तस्यैव सर्वज्ञत्व-सर्व-शक्तित्वाभ्यां जगज्-जन्मादि-हेतुत्वात् तत्र श्री-भगवत्य् एव ध्यानम् अभिधीयते । तथैव हि तत् पद्यं परमात्म-सन्दर्भे [१०४ अनु।] विवृतम् अस्ति । कस्मै येन विभाषितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा [भा।पु। १२.१३.१४] इत्य्-आदाव् उपसंहार-पद्येऽपि सत्यं परं धीमहि इति । अत एव स्पष्टम् एवास्य श्री-भगवत्त्वं श्री-भागवत-वक्तृत्वात् । पूर्वं च तेने ब्रह्म हृदा य आदि-कवये [भा।पु। १.१.१] इत्य् उक्तम् ।
- अभ्यासेनोदाहरणं पूर्वं दर्शितम् अदर्शितं चानेक-विधम् एव ।
- अपूर्वतया फलेन च दर्शितं श्री-व्यास-समाधौ अनर्थोपशमं साक्षात् [भा।पु। १.७.६] इत्य्-आदि । प्रशंसा-लक्षणेनार्थ-वादेन चाभ्यासवद् बहु-विधम् एव तत्रास्ति ।
- उपपत्त्या च—भयं द्वितीयाभिनिवेशतः स्यात् [भा।पु। ११.२.३७] इत्य्-आद्य् अनेकम् इति ।
अत्र गति-सामान्येन च इदं हि पुंसस् तपसः श्रुतस्य वा [भा।पु। १.५.२२] इत्य्-आदि । तथाह—
मुनिर् विवक्षुर् भगवद्-गुणानां
सखापि ते भारतम् आह कृष्णः ॥ [भा।पु। ३.५.१२] इत्य्-आदि । स्पष्टम् ॥
॥ ३.५ ॥ श्री-विदुरः ॥ ११४ ॥
-
उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् । अर्थवादोपत्ती च लिङ्गं तात्पर्य-निर्णये ॥ इत्य् एष श्लोकः क-ख-करलिप्योर् उपलभ्यते ॥ ↩︎