११२

प्रेम-कृत-कर्माशय-निर्धूननानन्तरम् अपि भक्तिः श्रूयते—

यथाग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्-भक्ति-योगेन भजत्य् अथो माम् ॥ [भा।पु। ११.१४.२५]

तथैव आत्मा जीवो मत्-प्रेम्णा कर्माशयं विधूय ततः शुद्ध-स्वरूपं च प्राप्य मां भजति इत्य् अर्थः । तद् उक्तं—मुक्ता1 अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इति ।

॥ ११.१४ ॥ श्री-भगवान् ॥११२॥

एवम् अप्य् उक्तं स्कान्दे रेवा-खण्डे—

इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि ।
श्वपचोऽपि भवत्य् एव यदा तुष्टोऽसि केशव ॥
श्वपचाद् अपकृष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्य् एते यदैव त्वं पराङ्मुखः ॥ इति ।

तथैवाह—

यच्-छौच-निःसृत-सरित्-प्रवरोदकेन
तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् । [भा।पु। ३.२८.२२] इति ।

स्पष्टम् ।2 तस्माद् भक्तेर् महा-नित्यत्वेनाप्य् अभिधेयत्वम् आयातम् । अग्रे स्व-कृत-पुरेषु [भा।पु। १०.८७.२०, अनु। १७८] इत्य्-आदौ जीवानां स्वभाव-सिद्धा3 सैवेति व्याख्येयम् ॥

॥ ३.२८ ॥ श्री-कपिल-देवः ॥ ११३ ॥


  1. प् इन्सेर्त्स् हेरे (१) “श्री-स्वामि-टीका-धृत-श्री-सर्वज्ञ-मुनि-वाक्ये (१०.८७.२१)” अन्द् (२) “श्री-शङ्कराचार्य-कृत-श्री-नृसिंह-तापनी—यं सर्वे देवा आमनन्ति…” थिस् लत्तेर् क़ुओते अप्पेअर्स् एर्रोनेओउस्। न्तु हस् “यं सर्वे देवा नमन्ति…” एत्च्। कठ उपनिषद् १.२.१५, ओन् थे ओथेर् हन्द्, रेअद्स् सर्वे वेदा यत् पदम् आमनन्ति। ↩︎

  2. इत्य् अस्मात् परं—“यस्य शौचान् नाभ्य्-अधोऽङ्ग-प्रक्षालन-जलात् निःसृतेन सरित्-प्रवरोदकेन तीर्थेन सर्व-पावनेन शिरस्य् अधिष्ठापितेन महा-देवः शिवस् तादृशोऽभूद् इत्य् अर्थः ।” इत्य् अधिक-पाठः क-ख-करलिप्योः प्राप्तः ॥ (प्) ↩︎

  3. स्वभावतो योग्या (ख, ग, च) ↩︎