तद् एवं श्री-भगवद्-भक्तेर् एव सर्वोर्ध्वम् अभिधेयत्वं स्थितम्—
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६.४६-४७] इति ।
अत्र योगिनाम् अपि सर्वेषाम् इति च पञ्चम्य्-अर्थ एव षष्ठी । तपस्विभ्य इत्य्-आदिना तथैवोपक्रमात्, भजतः सर्वाधिक्यम् एव विवक्षितं च।1 सर्व-शब्दोऽत्र देवम् एवापरे यज्ञं योगिनः पर्युपासते [गीता ४.२५] इत्य्-आदिना पूर्व-पूर्वोक्तान् सर्वान् उपायिनो गृह्णातीति ज्ञेयम् ।
तद् एवम् अभक्त-निन्दा-श्रवणात् श्रीमद्-भगवद्-भक्तेः सर्वेषु नित्यत्वम् अपि सिद्धम् । उक्तं च श्री-भगवता उद्धवं प्रति—भिक्षोर् धर्मः शमोऽहिंसा तप ईक्षा वनौकसः [भा।पु। ११.१८.४४] इत्य्-आदौ, सर्वेषां मद्-उपासनम् [भा।पु। ११.१८.४३] इति । तथा नारदेन च सार्ववर्णिक-स्वधर्म-कथने, श्रवणं कीर्तनं चास्य [भा।पु। ७.११.११] इत्य्-आदि । [अकरणे दोष-श्रवणं चान्यत्र, मुख-बाहूरु-पादेभ्यः [भा।पु ११.५.२] इत्य्-आदि ।]2
तथा च महाभारते—
मातृवत् परिरक्षन्तं सृष्टि-संहार-कारकम् ।
यो नार्चयति देवेशं तं विद्याद् ब्रह्म-घातकम् ॥ इत्य्-आदि ।
श्री-गीतोपनिषत्सु—
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥ [गीता ७.१५] इत्य्-आदि ।
आग्नेये विष्णु-धर्मे च—
द्विविधो भूत-सर्गोऽयं दैव आसुर एव च ।
विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥
अन्यद् अप्य् उदाहृतम्—विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-पादारविन्द-विमुखात् [भा।पु। ७.९.१०] इति श्वपचोऽपि महीपालः [ना।पु। २.१०.३७]इत्य्-आदि च । तथा गारुडे—
अन्तं गतोऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि ।
यो न सर्वेश्वरे भक्तस् तं विद्यात् पुरुषाधमम् ॥ [ग।पु। १.२३१.१७]
बृहन्-नारदीये—
हरि-पूजा-विहीनाश् च वेद-विद्वेषिणस् तथा ।
गो-द्विज-द्वेष-निरता राक्षसाः परिकीर्तिताः ॥ [ना।प। १.३७.५] इति ।
अपरं च—
येऽन्येऽरविन्दाक्ष विमुक्त-मानिनस्
त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः ॥ [भा।पु। १०.२.३२] इति ।
प्रथमतस् तावत् त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः—
धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ [११.१४.२२] इत्य्-आद्य्-उक्तेः ।
तथापि ज्ञान-मार्गम् आश्रित्य विमुक्त-मानिनो देह-द्वयातिरिक्तत्वेनात्मानं भावयन्तः, ततः—क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता १२.५] इत्य्-आद्य्-उक्तेः कृच्छ्रेणपरं पदंजीवन्-मुक्ति-रूपाम् आरुह्य प्राप्यापि, ततोऽधः पतन्ति भ्रश्यन्ति । कदेत्य् अपेक्षायाम् आह—अनादृत- इति । यदीति शेषः । तेषां भक्ति-प्रभावस्याननुवृत्तेर् अबुद्धि-पूर्वकस्य त्वद्-अनादरस्य निवर्तकाभावात्, तथापि दग्धानाम् अपि पाप-कर्मणां महा-शक्ति-श्री-भगवत्-पाद-पद्मावज्ञया पुनर् विरोहात्3 । तथा च वासना-भाष्योत्थापितं भगवत्-परिशिष्ट-वचनम्—
जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥
अत एव तत्रैव—
जीवन्-मुक्ताः प्रपद्यन्ते क्वचित् संसार-वासनाम् ।
योगिनो वै नो लिप्यन्ते कर्मभिर् भगवत्-पराः ॥ इति ।
तथा रथयात्रा-प्रसङ्गे विष्णु-भक्ति-चन्द्रोदयादि-धृतं पुराणान्तर-वचनम्—
नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इति ।
एवम् एवोक्तं—यो नादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः [भा।पु। ३.९.४] इति । अत एवोपदिष्टम्—
तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव ।
ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः ॥ [भा।पु। ११.१९.५]
तस्मात् सुतराम् एव सर्वेषां श्री-हरि-भक्तिर् नित्येत्य् आयातम् ॥
॥ १०.२ ॥ देवाः श्री-भगवन्तम् ॥१११॥