अत एव तत्-तन्-मार्ग-सिद्ध-मुनीनाम् अप्य् अनादरः—
अह्न्य् आपृतार्त-करणा निशि निःशयाना
नाना-मनोरथ-धिया क्षण-भग्न-निद्राः ।
दैवाहतार्थ-रचना मुनयोऽपि**1 देव**
युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥ [भा।पु। ३.९.१०]
अह्न्यापृतार्त- इत्य्-आदि । स्वभावात्2 युष्मद्-भजन-विमुखाः संसारिणो भवन्ति । किं बहुना, तत्-तन्-मार्ग-सिद्धा मुनयोऽपियुष्मत्-प्रसङ्ग-विमुखाश् चेद् इह जगति तद्वद् एव संसरन्ति । अथवा, मुनयोऽपि त्वद्-विमुखाश् चेत् तर्हि संसरन्त्य् एव । कथम्-भूताः सन्तः संसरन्ति ? तत्राह—अह्न्य् आपृतेत्य्-आदि, आरुह्य कृच्छ्रेण परं पदम् [भा।पु। १०.२.३२] इत्य्-आदेः । अत उक्तं श्री-धर्मेण—
धर्मं तु साक्षाद् भगवत्-प्रणीतं
न वै विदुर् ऋषयो नापि देवाः ।
न सिद्ध-मुख्या असुरा मनुष्याः
कुतो नु विद्याधर-चारणादयः ॥
स्वयम्भूर् नारदः शम्भुः कुमारः कपिलो मनुः ।
प्रह्लादो जनको भीष्मो बलिर् वैयासकिर् वयम् ॥
द्वादशैते विजानीमो धर्मं भागवतं भटाः ।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतम् अश्नुते ॥
एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।
भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ [भा।पु। ६.३.१९-२२]
एते धर्म-प्रवर्तका विजानीम एव, न तु स्व-स्मृत्य्-आदिषु3 प्रायेणोपदिशाम इत्य् अर्थः । यतो गुह्यम् अप्रकाश्यं दुर्बोधम् अन्यैस् तथा ग्रहीतुम् अशक्यं च । गुह्यत्वे हेतुः—यं ज्ञात्वा इति । [अमृतं परमं फलम्—
ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः ।
नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ [भ।र।सि। १.१.३८]
इत्य्-आदौ सूचितं परमत्वम् । विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः [भा।पु। १०.३३.४०] इत्य्-आदौ, भक्तिं पराम् इत्य्-आदिनोक्तम् । कृष्णाधरामृतास्वाद-सिद्धिर् अत्र इत्य्-आदौ किञ्चिद् विशदितम् अश्नुते ।]4
अत एव वक्ष्यते—प्रायेण वेद तद् इदं न महाजनोऽयम् [भा।पु। ६.३.२५] इत्य्-आदि । अत्रमहाजनो द्वादशभ्यस् तद्-अनुगृहीत-सम्प्रदायिभ्यश् चान्यो महागुण-युक्तोऽपीत्य् अर्थः । तस्मात् साधूक्तम्—अह्न्य् आपृतार्त- इत्य्-आदि ॥
॥ ३.९ ॥ ब्रह्मा गर्भोदशायिनम् ॥११०॥