१०९

तथा—

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः ॥ [भा।पु। ५.१८.१२]

अकिञ्चना निष्कामा । गुणैर् ज्ञान-वैराग्यादिभिः सह सर्वे ब्रह्मादयो देवाःसम्यग् आसते

॥ ५.१८ ॥ प्रह्लादः श्री-नृसिंहम्1 ॥ १०९ ॥


  1. भद्रश्रवः श्री-हयशीर्षम् (छ, ज, झ, ञ, य) ↩︎