१०८

तद्-अभक्त-मात्रानादरेणाह—

येऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना
ज्ञानं च तत्त्व-विषयं सह-धर्म यत्र ।
नाराधनं भगवतो वितरन्त्य् अमुष्य
सम्मोहिता विततया बत मायया ते ॥ [भा।पु। ३.१५.२४]

यत्र यस्यां भगवद्-धर्म-पर्यन्तो धर्मो भवति, भगवत्-पर्यन्तस्य तत्त्वस्य ज्ञानं च भवतीत्य् अर्थः । तां प्राप्ता अपि सर्वेषां धर्माणां ज्ञानानां च मूलं ये भगवत आराधनं न वितरन्ति न कुर्वन्ति । तद् उक्तं—बिले बतोरुक्रम-विक्रमान् ये [भा।पु। २.३.२०] इत्य्-आदि । तथा च ब्रह्म-वैवर्ते—

प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥
अशीति-चतुरश् चैव लक्षांस् तान् जीव-जातिषु ।
भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्म-पर्ययात् ॥
तद् अप्य् अफलतां जातं तेषाम् आत्माभिमानिनाम् ।
वराकाणाम् अनाश्रित्य गोविन्द-चरण-द्वयम् ॥ इति ।

॥ ३.१५ ॥ श्री-ब्रह्मा देवान् ॥ १०८ ॥