तथा—
कः पण्डितस् त्वद् अपरं शरणं समीयाद्
भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् ।
सर्वान् ददाति सुहृदो भजतोऽभिकामान्
आत्मानम् अप्य् उपचयापचयौ न यस्य ॥ [भा।पु। १०.४८.२६]
सुहृदो हितकारि-स्वभावात्, तत्रापि कृतज्ञाद् उपकाराभासेऽपि बहु-माननात् । यो भजतो भजमानाय सर्वान् कामान् अभीष्टान् अभि सर्वतो-भावेन ददाति । अत्र सुहृदः सुहृदे स-प्रीतये त्व् आत्मानम् अपि ददाति । न च सर्वतो-भावेन दाने तादृशेभ्यो बहुभ्यो दाने वा समावेशाभावः स्याद् इत्य् आह—उपचयेति ॥
॥ १०.४८ ॥ अक्रूरः श्री-भगवन्तम् ॥ १०७ ॥