आश्रयान्तर-स्वातन्त्र्यानादरेणाह—
अविस्मितं तं परिपूर्ण-कामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्य् अपरं हि बालिशः
श्व-लाङ्गुलेनातितितर्ति सिन्धुम् ॥ [भा।पु। ६.९.२२]
अविस्मितं ततोऽन्यस्यापूर्व-वस्तुनोऽसद्-भावाद् विस्मय-रहितम् । यद् वा, सदा सस्मितम्, अतः स्वेनैव स्वीयेनैव स्वस्यैव कर्म-भूतस्य क्रिया-भूतेन लाभेनपरिपूर्ण-कामं, नान्यस्येत्य् अर्थः । अतः सर्वत्र समं प्रशान्तं चित्त-दोष-रहितम् । अतितितर्ति अतितर्तुम् इच्छतीत्य् अर्थः । तथोक्तं—रजस्-तमः-प्रकृतयः [भा।पु। १.२.२७] इत्य्-आदि ।
स्कान्दे श्री-ब्रह्म-नारद-संवादे च—
वासुदेवं परित्यज्य योऽन्यं देवम् उपासते ।
स्व-मातरं परित्यज्य श्वपचीं वन्दते हि सः ॥
तथैवान्यत्र च—
वासुदेवं परित्यज्य योऽन्यं देवम् उपासते ।
त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम् ॥
महाभारते—
यस् तु विष्णुं परित्यज्य मोहाद् अन्यम् उपासते ।
स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति ॥ इति ।
अत एवोक्तं श्री-सत्यव्रतेन—
न यत्-प्रसादायुत-भाग-लेशम्
अन्ये न देवा गुरवो जनाः स्वयम् ।
कर्तुं समेताः प्रभवन्ति पुंसस्
तम् ईश्वरं वै शरणं प्रपद्ये ॥ इति ।
श्री-ब्रह्म-शिवाव् अपि वैष्णवत्वेनैव भजेत, स आदि-देवो जगतां परो गुरुः [भा।पु। २.९.५], वैष्णवानां यथा शम्भुः [भा।पु। १२.१३.१६] इत्य्-आद्य्-अङ्गीकारात् । अत एव द्वादशे श्री-शिवं प्रति मार्कण्डेय-वचनम्—
वरम् एकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।
भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि ॥ [भा।पु। १२.१०.३४]
_तथा त्वय्य् _अपि तत्-पर इत्य् अर्थः । अत एवाष्टमे प्रजापति-कृत-श्री-शिव-स्तुतौ—ये त्व् आत्मराम-गुरुभिर् हृदि चिन्तिताङ्घ्रि-द्वन्द्वम् [भा।पु। ८.७.३३] इति ।
चतुर्थे श्रीमद्-अष्ट-भुजं प्रति श्री-प्रचेतोभिर् अपि—
वयं तु साक्षाद् भगवन् भवस्य
प्रियस्य सख्युः क्षण-सङ्गमेन । [भा।पु। ४.३०.३८] इति ।
वैष्णवस्य सतः सम-दर्शिनस् तु न भक्ति-लाभः प्रत्यवायश् च । यथा वैष्णव-तन्त्रे—
न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जडाः ।
एकाग्र-मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इति ।
अत एवाभेद-दृष्टि-वचनं शम-भक्त-ज्ञान्य्-आदि-परम् एव । यथा श्री-मार्कण्डेयोपाख्याने द्वादश एव श्री-शिव-वाक्यम्—
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः ।
एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः ॥
स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः ॥
न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते ।
नात्मनश् च परस्यापि1 तद् युष्मान् वयम् ईमहि ॥ [भा।पु। १२.१०.२०-२२] इति ।
तत् ततोऽपि तान् अतिक्रम्य युष्मान् मार्कण्डेयादीन् शुद्ध-वैष्णवान् वयम् ईमहि भजेम इत्य् अर्थः । यद् उक्तं श्री-शिवेनैव प्रचेतसं प्रति—
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद्-भागवतानां च प्रेयान् अन्योऽस्ति कर्हिचित् ॥ [भा।पु। ४.२४.२६] इति ।
अन्यत्र च, प्रीते हरौ भगवति प्रीयेऽहं स-चराचरः [भा।पु। ८.७.४०]इति च । तस्य मार्कण्डेयस्य शुद्ध-वैष्णवत्वं चोक्तम् एतत्-पूर्वं—
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भा।पु। १२.१०.६] इति ।
श्री-मार्कण्डेयम् उद्दिश्य श्री-शिवेन । तथा श्री-शिवस्य तच्-चेतस्य् आविर्भावात् समाधि-विरामेण च तद् एव व्यञ्जितम् । यथा—किम् इदं कुत एवेति समाधेर् विरतो मुनिः [भा।पु। १२.१०.१३] इति । किं च, ब्राह्मणाः साधवः [भा।पु। १२.१०.२०] इत्य्-आदाव् अभेद-दृष्टि-वचनेऽपि, स्वयं च हरिर् ईश्वरः [भा।पु। १२.१०.२१] इत्य् अनेन तस्यैव प्राधान्यम् उक्तम् । तस्यैव स्वयमीश्वरत्वं चोक्तं, पार्थिवाद् दारुणः [भा।पु। १.२.२४] इत्य्-आदिना । ब्रह्म-पुराणे श्री-शिव-वाक्यम् अपि तथैव—
यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं वा पितामहम् ।
द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् ॥ [ब्र।पु। २२६.४६] इति ।
तद्-विज्ञानेन सर्व-विज्ञानाद् इति भावः । [अत एवम् अप्य् उक्तं सार्वभौमैः श्री-चिन्तामणि-दीक्षितैः—
वन-मालिनि यादृशाशयो, मम तादृङ् न कपाल-मालिनि ।
असिते मुदिरे यथा शिखी, मुदम् अभ्येति तथा न पाण्डुरे ॥
देव्यस् तटिन्यस् त्रिदशास् तडागा, विश्वेश्वरोऽयं सरिताम् अधीशः ।
तृष्णाहरः कोऽपि कृष्ण-मेघं, विहाय चिन्तामणि-चातकस्य ॥ इत्य्-आदि ।]2
तद् एवं वैष्णवत्वेनैव शिव-भजनं युक्तम् । केचित् तु वैष्णवास् तत्-पूजनम् आवश्यकत्वेनोपस्थितं चेत्, तर्हि तस्मिन्न् अधिष्ठाने श्री-भगवन्तम् एव पूजयन्ति । यथा श्री-विष्णु-धर्मोत्तरान्तिमोऽयम् इतिहासः—विष्वक्सेन-नामा कश्चिद् विप्र एकान्त-भागवतः पृथिवीं विचरन्न् आसीत् । स कदाचिद् एक एव वनान्त उपविष्टः । तत्राथ ग्रामाध्यक्ष-सुतः कश्चिद् आगतस् तम् उवाच “कोऽसि?” इति । ततः कृत-स्वाख्यानं तम् उवाच—“मम शिरः-पीडाद्य जातेति निजेष्ट-देवं शिवं पूजयितुं न शक्नोमि । ततो मम प्रतिनिधित्वेन त्वम् एव तं पूजय” इति । एतद्-अनन्तरं च तत्रत्यं सार्धं पद्यम्—
एतद् उक्तं प्रत्युवाच वयम् एकान्तिनः श्रुताः ।
चतुरात्मा हरिः पूज्यः प्रादुर्भाव-गतोऽथवा ।
पूजयामश् च नैवान्यं तस्मात् त्वं गच्छ मा चिरम् ॥ [वि।ध।पु। ३.३५४.१२-१३] इति ।
ततस् तस्मिंस् तद्-अङ्गीकृतवति स खड्गम् उन्नमितवान् शिरश् छेत्तुम् । ततश् चासौ विप्रस् तद्-धस्तेन3 मृत्युम् अनभीप्सन् विचार्योक्तवान्, “भद्रं तत्र गच्छाम” इति । गत्वा चेदं मनसि चिन्तितम्—“अयं रुद्रः प्रलय-हेतुतया तमो-वर्धनत्वात् तमो-भावः । श्री-नृसिंह-देवश् च तामस-दैत्य-गण-विदारकतया तमो-भञ्जन-कर्तृत्वात् तद्-भञ्जनार्थम् एव तत्रोदयेत, सूर्य इव तमो-राशेः । अतो रुद्राकाराधिष्ठानेऽपि तद्-उपासकानाम् एषां तमो-भञ्जन-कृते श्री-नृसिंह-पूजाम् एवास्मिन् करिष्यामि” इति ।
अथ “श्री-नृसिंहाय नमः” इति गृहीत-पुष्पाञ्जलौ तस्मिन् पुनः क्रोधाविष्टेन ग्रामाध्यक्ष-पुत्रेण खड्गः समुद्यमितः । ततश् चाकस्मात् तद् एव लिङ्गं स्फोटयित्वा श्री-नृसिंह-देवः स्वयम् आविर्भूय तं ग्रामाध्यक्ष-पुत्रं स-परिकरं जघान । दक्षिणस्यां दिशि लिङ्ग-स्फोट-नामा स्वयं च तत्र स्थितवान् इति ।
अतोऽनन्य-भक्ताः श्री-शिवम् अपि वैष्णवत्वेन मानयन्ति । केचित् कदाचित् तद्-अधिष्ठानत्वेनैव वा । अत एवोक्तम् आदि-वाराहे—
जन्मान्तर-सहस्रेषु समाराध्य वृष-ध्वजम् ।
वैष्णवत्वं लभेद् धीमान् सर्व-पाप-क्षये सति ॥ इति ।
अत एव श्री-नृसिंह-शिव-भक्त्योर् अन्तरं बृहद् एव श्री-नृसिंह-तापन्यां श्रुतौ—
अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत्-समं । वानप्रस्थ-शतम् एकम् एकेन यतिना तत्-समं । यतिनां तु शतं पूर्णम् एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन अथर्वाङ्गीरस-शिखाध्यापकेन तत्-समम् । अथर्वाङ्गीरस-शिखाध्यापक-शतम् एकम् एकेन मन्त्र-राजाध्यापकेन तत्-समम्4 । [नृ।ता।उ। ५.८] इति ।
मन्त्र-राजश् च तत्र श्री-नृसिंह-मन्त्र एवेति । स्वतन्त्रत्वेन भजने तु भृगु-शापो दुरत्ययः । यथा चतुर्थे—
भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् ।
भव-व्रत-धरा ये च ये च तान् समनुव्रताः ।
पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः ॥ [भा।पु। ४.२.२७-२८] इत्य्-आदि ।
वेद-विहितम् एवात्र भव-व्रतम् अनूद्यते । अन्य-विहितत्वे पाषण्डित्व-विधानायोगः स्यात् । पूर्वत एव पाषण्डित्व-सिद्धेः । [अथ तत्-परिपन्थिनां श्री-भागवतादीनां सच्-छास्त्रत्वम् आयातम् । तत्-पुरस्कृतानां सूत-संहितादीनाम् असच्-छास्त्रत्वं स्पष्टम् एव ।]5 तस्मात् स्वतन्त्रत्वेनैवोपासनायाम् अयं दोषः । यतश् च तत्रैव तेन श्री-जनार्दनस्यैव वेद-मूलत्वम् उक्तम्—
एष एव हि लोकानां शिवः पन्थाः सनातनः ।
यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः ॥ [भा।पु। ४.२.३१] इति ।
एष वेद-लक्षणो यत्-प्रमाणं यत्र मूलम् इत्य् अर्थः । अत एवान्वयेनापि श्री-विष्णु-भक्तिर् दृढी-कृता सत्त्वं रजस् तमः [भा।पु। १.२.२३] इत्य्-आदिना । तथा श्री-हरि-वंशे शिव-वाक्यम्—
हरिर् एव सदा ध्येयो भवद्भिः सत्त्व-संस्थितैः ।
विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ [ह।वं। ३.८९.८] इति ।
तस्मात् श्री-शिव-भक्तेर् अप्य् एवं-भूतत्वे6 स्थिते परासाम् अपि देवतानां वैष्णवागमादौ तद्-बहिरङ्गावरण-सेवकत्वेनाप्राकृतानाम् एव पूजा-विधानम्। श्री-भगवद्वल्-लोक-सङ्ग्रह-पराणां7 तल्-लीलौपायिक-नर-लीला-पार्षदानां वा श्री-भगवत्-प्रीणन-यज्ञादौ तु युधिष्ठिर-राजसूयवद् अन्यासाम् अपि तद्-विभूतित्वेनैवेति ज्ञेयम् । यथानुष्ठितं श्री-प्रह्लादेन—
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन् देवान् प्रह्रादो भगवत्-कलाः ॥ [भा।पु। ७.१०.३२] इति ।
तद् उक्तं श्री-युधिष्ठिरेणैव—
क्रतु-राजेन गोविन्द राजसूयेन पावनीः ।
यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ [भा।पु। १०.७२.३१] इति विभूतित्वेनैवम् उक्तम् ।
पाद्मे कार्त्तिक-माहात्म्ये श्री-सत्यभामां प्रति श्री-भगवता—
शैवाः सौराश् च गाणेशा वैष्णवाः शक्ति-पूजकाः ।
माम् एव प्राप्नुवन्तीह वर्षापः सागरं यथा ॥
एकोऽहं पञ्चधा जातः क्रीडया नामभिः किल ।
देव-दत्तो यथा कश्चित् पुत्रादि-जन-नामभिः ॥ [प।पु। ६.८८.४३-४४] इति ।
वस्तुतस् तु सर्वापेक्षया श्री-वैष्णवा एव श्रेष्ठाः । तद् उक्तं स्कान्दे ब्रह्म-नारद-संवादे तथैवान्यत्र प्रह्लाद-संहितायाम् एकादशी-जागरण-प्रसङ्गे च—
न सौरो न च शैवो वा न ब्राह्मो न च शाक्तिकः ।
न चान्य-देवता-भक्तो भवेद् भागवतोपमः ॥ इति ।
तादृश-सौरादीनां तत्-प्राप्तिश् च न केवलं तद्-धेतुकैव8 किन्तु भगवत्-प्रीत्य्-अर्थ-कृत-जप-तपस्-तज्-जात-शुद्ध-भक्ति-द्वारा वा श्री-विष्णु-क्षेत्र-मरणादि-प्रभावेण वा । यथा तत्रैव वर्णितयोर् देवशर्म-चन्द्रशर्म-नाम्नोः सूर्यम् आराधयतोः । तद् उक्तं तत्रैव श्री-भगवता—
तत्-क्षेत्रस्य प्रभावेण धर्म-शीलतया पुनः ।
वैकुण्ठ-भवनं नीतौ मत्-परौ मत्-समीपगैः ॥
यावज् जीवन्तु यत् ताभ्यां सूर्य-पूजादिकं कृतम् ।
तेनाहं कर्मणा ताभ्यां सुप्रीतो ह्य् अभवं किल ॥ इति ।
तत्-क्षेत्रं माया-पुरी । तौ च श्री-कृष्णावतारे सत्राजिद्-अक्रूराख्यौ जाताव् इति च तत्र प्रसिद्धिः। एवं पुण्डरीकस्यापि पितृ-सेवया तत्-प्राप्तिश् च योजनीया ।
स्वतन्त्रोपासनायां तत्-प्राप्तिः श्री-गीतोपनिषत्स्व् एव निषिद्धा—
येऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥
यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम् ॥ [गीता ९.२३-२५] इति ।
तस्मात् तदीयत्वेनोपासनायां कश्चिद् गुणोऽपि भवति । अवज्ञादौ तु दोषः—श्रद्धां भागवते शास्त्रेऽनिन्दाम् अन्यत्र चापि हि [भा।पु। ११.३.२६] इतिवत् । यथा पाद्मे—
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ।
इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥इति ।
गौतमीये च—
गोपालं पूजयेद् यस् तु निन्दयेद् अन्य-देवताम् ।
अस्तु तावत् परो धर्मः पूर्व-धर्मोऽपि नश्यति ॥ [गौ।त। ३३.८४] इति ।
अत एव हयशीर्षा मां पथि देव-हेलनात् [भा।पु। ६.८.१५] इति श्री-नारायण-वर्मणि तद्-आगः-प्रायश्चित्तम् ।
विष्णु-धर्मे चायम् इतिहासः—पूर्वं श्रीमद्-अम्बरीषो बहु-दिनं श्री-भगवद्-आराधनं तपोऽनुष्ठितवान् । तद्-अन्ते च भगवान् एवेन्द्र-रूपेणैरावती-कृतं गरुडम् आरुह्य तं वरेण छन्दयामास । स चेन्द्र-रूपं दृष्ट्वा तं नमस्कारादिभिर् आदृत्यापि तस्माद् वरं नेष्टवान् । उक्तवांश् च—“ममाराध्याकारो यः, स एव मम वर-दाता भवेन् नान्यः” इति । “अथ तद्-देयं वरम् अहम् एव दास्यामि” इति पुनर् उक्तवत्य् अपीन्द्रे तं नेष्टवन्तं तं प्रति वज्रं समुद्यतवान् । तदापि तं वरं नाङ्गीकृतवति तस्मिन् सुप्रसन्नो भूत्वा तद्-रूपम् अन्तर्धाप्य स्वरूपम् आविर्भावयन्न् अनुजग्राहेति ।
तत्र च शिवावज्ञादौ महान् एव दोषः । यथा चतुर्थ एव नन्दीश्वर-शापः—संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् [भा।पु। ४.२.२४] इति । इदम् अपि यत् किञ्चिद् एव, श्री-शिवस्य महाभागवतत्वेन दोषस्य स्वयम् एव सिद्धत्वात् । हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम् [भा।पु। ४.११.३२] इत्य् उक्त-रीत्या नूनं तत्-सख्यम् अनुस्मृत्यैव कुबेराद् अपि श्री-ध्रुवेण भगवद्-भक्ति-स्वभाव-कृत-सर्व-विषयक-विनय-पुनः-पुनर्-भक्त्य्-अभिलाषाभ्यां युक्तेन सता कृतं भगवद्-भक्ति-वर-प्रार्थनम् इति चतुर्थाभिप्रायः । अत एवोक्तं—
यो मां समर्चयेन् नित्यम् एकान्तं भावम् आश्रितः ।
विनिन्दन् देवम् ईशानं स याति नरकं ध्रुवम् ॥[कौर्मे] इति ।
दृष्टं च तथा चित्रकेतु-चरिते ।
श्री-कपिल-देवेन साधारणानाम् अपि प्राणिनाम् अवमानादिकं निन्दितं, किम् उत तद्-विधानाम् । तथा हि—
अहं सर्वेषु भूतेषु
भूतात्मावस्थितः सदा ।
तम् अवज्ञाय मां मर्त्यः
कुरुतेऽर्चा-विडम्बनम् ॥ [भा।पु। ३.२९.२१]
भूतेषु वक्ष्यमाण-रीत्या
अ-प्राण-भृज्-जीवम् आरभ्य भगवद्-अर्पितात्म-जीव-पर्यन्तेषु।
भूतात्मा तद्-अन्तर्यामी ।
तं माम् अवज्ञाय, तेषाम् अवज्ञया
तद्-अधिष्ठानकस्य ममैवावज्ञां कृत्वेत्य् अर्थः ।
ततस् तां कृत्वा
योऽर्चां मत्-प्रतिमां कुरुते,
स तद्-विडम्बनं
तस्या अवज्ञाम् एव कुरुत इत्य् अर्थः । यतः—
यो मां सर्वेषु भूतेषु
सन्तम् आत्मानम् ईश्वरम् ।
हित्वार्चां भजते मौढ्याद्
भस्मन्य् एव जुहोति सः ॥ [भा।पु। ३.२९.२२]
मौढ्यात् शैली दारुमयी वा काचित् प्रतिमेयम् इति मूढ-बुद्धित्वाद् यः सर्वेषु भूतेषु वर्तमानं परम्आत्मानम् ईश्वरं मां हित्वा तस्या मयैक्यं अविभाव्य अर्चां मदीयां प्रतिमां भजते, केवल-लोक-रीति-दृष्ट्या तस्यै जलादिकम् अर्पयति । यथाग्नि-पुराणे दशरथ-मारित-पुत्रस्य तपस्विनो विलापे—
शिला-बुद्धिः कृता किं वा प्रतिमायां हरेर् मया ।
किं मया पथि दृष्टस्य विष्णु-भक्तस्य कर्हिचित् ॥
तन्-मुद्राङ्कित-देहस्य चेतसानादरः कृतः ।
येन कर्म-विपाकेन पुत्र-शोको ममेदृशः ॥ इति ।
यथा चोक्तं—
अर्च्ये विष्णौ शिला-धीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिर्
विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थेऽम्बु-बुद्धिः ।
श्री-विष्णोर् नाम्नि मन्त्रे सकल-कलुष-हे शब्द-सामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः ॥ [पद्या। ११४] इति ।
तस्य च मूढस्य मद्-दृष्ट्य्-अभावात् सर्व-भूतावज्ञापि भवति । ततस् तद्-दोषेण भस्मनि यथा जुहोति कश्चित्, तथा तस्याश्रद्दधानस्य फलाभाव इत्य् अर्थः । ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः [गीता १७.१] इत्य्-आद्य्-उक्त-रीत्या लोक-परम्परा-मात्र-जाते यत्-किञ्चिच्-छ्रद्धा-सद्-भावे तु कनिष्ठ-भागवतत्वम् एव ।
अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥[भा।पु। ११.२.४७] इत्य् उक्तेः।
यद्यपि यथा-कथञ्चिद् भजनस्यैवावश्यक-फलावसानतास्त्य् एव, तथापि झटिति न भवतीत्य् एव तथोक्तम् । वक्ष्यते च साफल्यम्—अर्चादाव् अर्चयेत् तावत् [भा।पु। ३.२९.२५] इत्य्-आदिना ।
अवज्ञा-मात्रस्य तादृशत्वे सुतरां तु—
द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः ।
भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति ॥ [भा।पु। ३.२९.२३] इत्य् उक्तेः ।
भिन्न-दर्शिनः सर्वत्रान्तर्याम्य्-एक-दृष्टि-रहितस्य, [अथवा सर्वतोऽत्यन्तम् एव विलक्षणः श्रीमान् व्रज-सार्वभौम-नन्दनस् तं न पश्यत्य् अभिन्न-दर्शी, तस्येत्य् अर्थः ।]अत9 एव मानिन अत एव बद्ध-वैरस्य च ।
तथा च महाभारते—
पितेव पुत्रं करुणो नोद्वेजयति यो जनः ।
विशुद्धस्य हृषीकेशस् तस्य तूर्णं प्रसीदति ॥
किं च—
अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे ।
नैव तुष्येऽर्चितोऽर्चायां भूत-ग्रामावमानिनः ॥ [भा।पु। ३.२९.२४]
अवमानिनो निन्दा-कर्तुः । निन्दापि द्वेष-समा । किं वा—
न तथा तप्यते विद्धः पुमान् बाणैर् हि मर्मगैः ।
यथा तुदन्ति मर्मस्था असतां परुषेषवः ॥ [भा।पु। ११.२३.३]
इत्य्-आद्य्-उक्त-रीत्या ततोऽधिका इति । नायं व्युत्क्रम्य इत्य् अभिप्रेत्य न द्वेषात्10 पूर्वम् असौ पठिता ।
तद् एवं ईश्वर-ज्ञानाभावाद् भक्ताव् अश्रद्दधानस्य दोष उक्तः । अथ तच्-छ्रद्धा-हेतु-तज्-ज्ञानस्य स्व-धर्म-संयुक्तं तद्-अर्चनम् एव कारणम् उपदिशंस् तादृशार्चनस्याप्य् अव्यर्थताम् अङ्गीकरोति—
अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् ।
यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् ॥ [भा।पु। ३.२९.२५]
तावद् एव स्व-कर्म-कृत् सन् अर्चादाव् अर्चयेद् यावत् सर्व-भूतेष्व् अवस्थितम् ईश्वरं मां न वेद न जानाति । अत्र स्व-कर्म-सहायत्वम् अजात-श्रद्धस्यशुद्ध-भक्ताव् अनधिकारात्।तत् प्रतिपादयिष्यते—जात-श्रद्धो मत्-कथासु [भा।पु। ११.२०.२७] इत्य्-आदिना । अतो भगवज्-ज्ञानाद् ऊर्ध्वं जात-श्रद्धस् तु स्व-कर्म-कृत् सन् नार्चयेत्, किन्तु शुद्धम् अर्चादिकम् एव कुर्वीतेत्य् आयातम् । तच् च प्रतिपादयिष्यते—तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदिना, न त्व् अर्चां परित्यजेद् इत्य् अर्थः ।
प्रतिष्ठितार्चा न त्याज्या यावज्-जीवं समर्चयेत् ।
वरं प्राण-परित्यागः शिरसो वापि कर्तनम् ॥ इति हयशीर्ष-पञ्चरात्र-विरोधात् ।
अथ स्व-धर्म-पूर्वकम् अर्चनं कुर्वंश् च भूत-दयां विना न सिद्ध्यतीत्य् आह—
आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् ।
तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् ॥ [भा।पु। ३.२९.२६]
अन्तरोदरम् उदर-भेदेन भेदं करोति, न तु मद्-अधिष्ठानत्वेनात्म-समं पश्यति । ततश् च क्षुधितादिकम् अपि दृष्ट्वा स्वोदरादिकम् एव केवलं बिभर्तीत्य् अर्थः । तस्य भिन्न-दृशोमृत्यु-रूपोऽहम् उल्बणं भयं संसारम् ।
निगमयति—
अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् ।
अर्चयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ [भा।पु। ३.२९.२७]
अथ अतो हेतोः । यथा-युक्तं यथा-शक्ति दानेन, तद्-अभावे मानेन, चाभिन्नेन चक्षुषा इति पूर्ववत् । तथोक्तं सनकादीन् प्रति श्री-वैकुण्ठ-देवेन—
ये मे तनूर् द्विज-वरान् दुहतीर् मदीया
भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या ॥ [भा।पु। ३.१६.१०] इत्य्-आदि ।
यद् वा, भिन्नेन चक्षुषान्यत्र या दृष्टिस् ततोऽतिविलक्षणया दृष्ट्या सर्वोत्कृष्ट-दृष्ट्येत्य् अर्थः । तत्र सर्वेषां साधारण्येनेवार्हणे प्राप्ते विशेषयति—
जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे ।
ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः ॥
तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः ।
तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः ॥
रूप-भेद-विदस् तत्र ततश् चोभय-तोदतः ।
तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् ॥
ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञोऽभ्यधिकस् ततः ॥
अर्थज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-धर्म-कृत् ।
मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः ॥
तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः ।
मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः ।
न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् ॥ [भा।पु। ३.२९.२८-३३]
पूर्व-पूर्वस्माद् उत्तरोत्तरस्मिन् एकैक-गुणाधिक्येनाधिक्यम् । धर्मम् अदोग्धा निष्काम-कर्मा । निरन्तरो ज्ञानाद्य्-अव्यवहित-भक्तिः । अकर्तुर् अर्पितात्मत्वेन स्व-भरणादि-कर्मानपेक्षमाणात् । यद् भगवति भक्तिः क्रियते, तत्रापि स्वस्य भगवद्-अधीनत्वं ज्ञात्वा तद्-अभिमान-शून्याच् च । सम-दर्शनाद् भगवद्-अधिष्ठानता-साम्येनात्मवत्11 परेष्व् अपि हितम् आशंसमानात्12 । जीवाः श्रेष्ठा ह्य् अजीवानाम्[३.२९.२८] इत्य्-आदिना भेदो हि विवक्षितः । ततो मद्-भक्तेष्व् एवादर-बाहुल्यादिकं कर्तव्यम् । अन्यत्र च यथा-प्राप्तं यथा-शक्ति चेति भावः । तथैवोक्तम्—
मनसैतानि भूतानि प्रणमेद् बहुमानयन् ।
ईश्वरो जीव-कलया प्रविष्टो भगवान् इति ॥ [भा।पु। ३.२९.३४]
जीव-कलया तत्-कलनया तद्-अन्तर्यामितयेत्य् अर्थः । अत्र समोऽहं [गीता ९.२९] इत्य्-आदि-गीता-पद्यम् अपि स्मर्तव्यम् । तद् एवं प्रथमोपासकानां सर्व-भूतादरो विहितः । स-श्रद्ध-साधकानां तु भगवद्-वैभव-सार्वत्रिकता-स्फूर्त्या भवत्य् एवासौ । यथोक्तं स्कान्दे—
एतेन ह्य् अद्भुता व्याध तवाहिंसादयो गुणाः ।
हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः ॥ इति ।
यथा—
यत्रानुरक्ताः सहसैव धीरा
व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत् पारमहंस्यम् अन्त्यं
यस्मिन्नहिंसोपरमः13 स्व-धर्मः ॥
इत्य् अनुसारेण14 परम-सिद्धानां च, सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः [भा।पु। ११.२.४५] इत्य्-आद्य्-अनुसारेण सिद्ध एव सः । तत्र साधकानां यत् तु यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य्-आदौ तदन्योपासनानां पुनरुक्तत्वम् उपलभ्यते, तत् पुनः केवल-स्वतन्त्र-तत्-तद्-दृष्ट्योपासनानाम् एव ।
अत्र तु तत्-तद्-अधिष्ठानक-भगवद्-उपासनम् एव विधीयते । तद्-आदरावश्यकत्वं च तत्-सम्बन्धेनैव सम्पाद्यते।15 तच् चान्यत्र झटिति राग-द्वेष-निवृत्त्य्-अर्थम्16 इति ज्ञेयम् । अत एव केवल-भूतानुकम्पया श्री-भगवद्-अर्चनं त्यक्तवतो भरतस्यान्तरायः । तस्माद् भूत-दयैव भगवद्-भक्तिर् मुख्या नार्चनम् इति निरस्तम् । तथैवतद्-अव्यवहित-पूर्वं निर्गुण-भक्त्य्-उपायत्वेन, क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः [भा।पु। ३.२९.१५] इत्य् अत्र अति-शब्देन पाञ्चरात्रिकार्चन-लक्षण-क्रिया-योगार्था पत्र-पुष्पावचयादि-लक्षाणा किञ्चिद् धिंसापि विहिता । तस्माद् अन्येषाम् अनादरो न कर्तव्यस् तत्-सम्बन्धेनादरादिकं च कर्तव्यम् । स्वातन्त्र्येणोपासनं तु धिक्-कृतम् इति साध्व् एवोक्तम् अविस्मितं तं परिपूर्ण-कामम् [भा।पु। ६.९.२२] इत्य्-आदि ॥
॥ ६.९ ॥ देवाः श्रीमद्-आदि-पुरुषम् ॥ १०६ ॥
-
जनस्यापि (ख, च, य) ↩︎
-
थेसे वेर्सेस् फ़ोउन्द् ओन्ल्य् इन् ख, ग, घ, च म्स्स्। इ चन्ऽत् फ़िगुरे ओउत् थे मेतेर्, पेर्हप्स् चोर्रुप्त्। ↩︎
-
विप्रः स्तब्धस् तेन (प्)। थे ओथेर् रेअदिन्ग् इस् फ़्रोम् य बुत् प् स्होwस् लतेर् प्रेफ़ेरेन्चे फ़ोर् इत् इन् लिनेर् नोते। ↩︎
-
… रुद्र-जापक-शतम् एकम् एकेन अथर्व-शिरः-शिखाध्यापकेन तत्-समम् । अथर्वशिरः-शिखाध्यापक-शतम् एकम् एकेन तापनीयोपनिषद्-अध्यापकेन तत्-समम् । तापनीयोपनिषद्-अध्यापक-शतम् एकम् एकेन मन्त्र-राजाध्यापकेन तत्-समम् ॥ इति मूल-तापनीयोपनिषदः पाठः। ↩︎
-
नोत् इन् अल्ल् एदितिओन्स्। क, ख, ग, च, ज अन्द् य। ↩︎
-
एवं-भूते (छ, य) ↩︎
-
भगवल्- ↩︎
-
तद्-धेतुत्वेन (ख, ग, च, ज) ↩︎
-
“सर्वतोऽत्यन्तम् एव… तस्येत्य् अर्थः” इति पाठः ग-घ-च-करलिपिषु प्राप्तः। ↩︎
-
भूत-द्वेषात् (ख), तद्-द्वेषात् (च) ↩︎
-
अधिष्ठातृत्व (य) ↩︎
-
हितम् आशंसतः (ख, ग, च); हितम् आशंसमानात् श्रवणादि-कर्मानपेक्षमाणात् (ज); हितम् आशंसनेन श्रवणादि-कर्मानपेक्षमाणात् (य) ↩︎
-
अहिंसोपशमः (भागवत-पाठान्तरम्) ↩︎
-
सिद्ध एव सः । तत्र… इति य। ↩︎
-
सम्पाद्यत इति भेदः इति य। ↩︎
-
विश्लेषार्थम् (ख, ग, च, ज, य) ↩︎