१०५

वस्तुतस् तु—

श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥[भा।पु। १०.१४.४]

टीका च—भक्तिं विना च ज्ञानं नैव सिध्यतीत्य् आह—श्रेय इति । श्रेयसाम् अभ्युदयापवर्ग-लक्षणानां सृतिर् यस्याः सरस इव निर्झराणां तां, ते तव भक्तिम् उदस्य त्यक्त्वा श्रेयसां मार्ग-भूताम् इति वा । तेषां क्लेशलक्लेश एवावशिष्यते । अयं भावः—यथाल्प-प्रमाणं धान्यं परित्यज्यान्तः-कण-हीनान् स्थूल-धान्याभासांस् तुषान् एव येऽवघ्नन्ति, तेषां न किञ्चित् फलम् । एवं भक्तिं तुच्छीकृत्य ये केवल-बोधाय प्रयतन्ते, तेषाम् अपि ॥ इत्य् एषा ।

अत्र विभो इतिवत् केवल शुद्ध इत्य् अपि सम्बोधनम् । असौ दृश्यमानः क्लेशलः सन्न्यासादीन्य् एवेति च ज्ञेयम् । श्री-गीतासु च—श्री-भगवान् उवाच—अमानित्वम् अदम्भित्वम् [गीता १३.७] इत्य्-आदिकं ज्ञान-योग-मार्गम् उपक्रम्य, मध्ये तत्त्व-ज्ञानार्थ-दर्शनम् [गीता १३.११] इति समाप्याह—एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतोऽन्यथा [गीता १३.११] इति । ततो भक्ति-योगं विना ज्ञानं न भवतीत्य् अर्थः । ततोऽन्तेऽप्य् उक्तं—मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते [गीता १३.१८] इति । अन्यत्र च—

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ [गीता ९.३] इति ।

अस्य सततं कीर्तयन्तो मां [गीता ९.१४] इत्य्-आदि-पूर्वोक्त-लक्षणस्येत्य् अर्थः । अत एवास्फुट-भक्तीनां मुद्गलादीनाम् अपि कृत-चरी साधन-भक्तिर् अनुसन्धेया ॥

॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ १०५ ॥