अथ ज्ञानानादरेणाप्य् उदाह्रियते । तत्र तस्य कृच्छ्र-साधनत्वेनानादरो दर्शित एव—पानेन ते देव-कथा-सुधायाः [भा।पु। ३.५.४५-४६] इत्य्-आदिभ्याम् । तथोक्तं श्री-कुमारोपदेशे, कृच्छ्रो महान् [भा।पु ४.२२.४०] इत्य्-आदि । श्री-गीतासु च—
श्री अर्जुन उवाच—
एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥
श्री-भगवान् उवाच—
मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥
संनियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः ।
ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥
क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [गीता १२.१-५]
भक्ति-मार्गे तु श्रमो न स्यात् । तद्-वशीकारिता-रूपं फलं चापूर्वम् इत्य् आह—
ज्ञाने प्रयासम् उदपास्य नमन्त एव
जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् ।
स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर्
ये प्रायशोऽजित जितोऽप्य् असि तैस् त्रि-लोक्याम् ॥ [भा।पु। १०.१४.३]
उदपास्य इषद् अप्य् अकृत्वा । स्थानेसतां निवास एव स्थिता अपि।1 सन्-मुखरितां [यदृच्छया सङ्गतैः]2 सद्भिर् मुखरितां स्वत एव नित्यं प्रकटितां भवदीय-वार्तां तत् स्वत एव श्रुति-गतां श्रवणं प्राप्तां तनु-वाङ्-मनोभिर् नमन्तः सन्निधि-मात्रेण कुर्वन्तो ये जीवन्ति केवलं यद्यपि नान्यत् कुर्वन्ति तैः प्रायशस् त्रि-लोक्याम् अन्यैर् अजितोऽपि त्वं जितोऽसि वशीकृतोऽसि । अत एवोक्तं श्री-नृसिंह-पुराणे—
पत्रेषु पुष्पेषु फलेषु तोयेष्व्
अक्रीत-लभ्येषु सदैव सत्सु ।
भक्त्या सुलभ्ये पुरुषे पुराणे
मुक्तौ किम्-अर्थं क्रियते प्रयत्नः ॥ इति ।