श्री-भगवत्-समर्पित-कर्मणोऽप्य् अनादरेण तु दर्शितम्—तस्माद् एकेन मनसा [भा।पु १.२.१४] इत्य्-आदि । श्री-गीतोपनिषत्सु च भक्त्य्-असामर्थ्य एव तद् विहितम्—
मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्
अभ्यास-योगेन ततो माम् इच्छाप्तुं धनंजय
अभ्यासेऽप्य् असमर्थोऽसि मत्-कर्म-परमो भव
मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि
अथैतद् अप्य् अशक्तोऽसि कर्तुं मद्-योगम् आश्रितः
सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥ [गीता १२.८-११]
अत्र पाद्मे कार्त्तिक-माहात्म्येतिहासोऽनुसन्धेयः । यथा—चोल-देश-राजस्य कस्यचिद् विष्णु-दास-नाम्ना विप्रेण शुद्धम् अर्चनम् एव कुर्वता सह कस्य पूर्वं भगवत्-प्राप्तिः स्याद् इति स्पर्धया बहून् यज्ञान् भगवद्-अर्पितान् अपि सुष्ठु विदधतो न भगवत्-प्राप्तिर् अभूत्, किन्तु विप्रस्य भगवत्-प्राप्तौ दृष्टायां तान् परित्यज्य—
यत् स्पर्धया मया चैतद् यज्ञ-दानादिकं कृतम् ।
स विष्णु-रूप-धृग् विप्रो याति वैकुण्ठ-मन्दिरम् ॥ [प।पु। ६.१०९.२२]
तस्माद् दानैश् च यज्ञैश् च नैव विष्णुः प्रसीदति ।
भक्तिर् एव परं तस्य निदानं तोषणे मतम्॥1 [प।पु। ६.१०९.२५]
इति मुद्गलं प्रत्य् उक्ता ।
विष्णौ भक्तिं स्थिरां देहि मनो-वाक्-काय-कर्मणा ।
त्रिर् उच्चैर् व्याजहारासौ होम-कुण्डाग्रतः स्थितः ॥[प।पु। ६.१०९.२९]
इत्य् उक्त्वा शुद्ध-भक्ति-शरणताम् एव मुहुर् दैन्येनाङ्गीकृत्य होम-कुण्डे देहं त्यजतः पश्चाद् एव तत्-प्राप्तिर् इति ।
योगानादरेणाह—
युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः ।
अक्षीण-वासनं राजन् दृश्यते क्वचिद्****उत्थितम्2 ॥ [भा।पु। १०.५१.६०]
उत्थितं विषयाभिमुखम् ॥
॥ १०.५१ ॥ श्री-भगवान् मुचुकुन्दम् ॥१०२॥