अत एवाहुः—
धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे ॥
[भा।पु। १०.२३.४०]
टीका च—त्रिवृत् शौक्रं सावित्रं दैक्षम् इति त्रिगुणितं जन्म । व्रतं ब्रह्मचर्यम् । क्रियाः कर्माणि दाक्ष्यं च ॥ इत्य्-आदिका । तथोक्तं—किं जन्मभिस् त्रिभिः[भा।पु। ४.३१.८] इत्य्-आदि ॥
॥ १०.१३ ॥ याज्ञिक-विप्राः ॥ १०१ ॥