तथा, त्यक्त्वा स्व-धर्मं [भा।पु। १.५.१७] इत्य्-आदिकम् अनुसन्धेयम् । एवं महा-वित्त-महायासादि-साध्येन कर्मादिना तुच्छं स्वर्गादि-फलं, स्वल्पायास-स्वल्प-वित्तादि-साध्यया भक्त्या तद्-आभासेन च परम-महत्-फलं तत्र तत्रानुसन्धाय भक्ताव् एव शास्त्र-तात्पर्यं पर्यालोचनीयम् । तस्मात् तत्-तच्-छास्त्राणाम् अपि भक्ति-विधेयक-तत्-तद्-अनुवादेन प्रवृत्तत्वान् न वैफल्यम् इत्य् अपि ज्ञेयम् । किं च—
विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-
पादारविन्द-विमुखात् श्वपचं वरिष्ठम् ।
मन्ये तद्-अर्पित-मनो-वचनेहितार्थ-
प्राणं पुनाति सकुलं न तु भूरि-मानः ॥ [भा।पु। ७.९.१०]
टीका च—भक्त्यैव केवलया हरेस् तोषः सम्भवतीत्य् उक्तम् । इदानीं भक्तिं विना नान्यत् किञ्चित् तत्-तोष-हेतुर् इत्य् आह—विप्राद् इति । मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः ॥ [भा।पु। ७.९.९] इत्य्-आदौ पूर्वोक्ता ये धनादयो द्विषड् द्वादश-गुणाः, तैर् युक्ताद् विप्राद् अपि श्वपचं वरिष्ठं मन्ये । यद् वा, सनत्-सुजातोक्ता द्वादश धर्मादयो गुणा द्रष्टव्याः—
धर्मं च सत्यं च दमस् तपश् च
विमत्सरं ह्रीस् तितिक्षानसूया ।
यज्ञश् च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ॥[म।भा। ३.४३.२०] इति ।
कथम्-भूताद् विप्रात् ? अरविन्दनाभ-पादारविन्द-विमुखात् । कथम्-भूतं श्वपचं ? तस्मिन्न् अरविन्द-नाभेऽर्पिता मन-आदायो येन तम् । ईहितं कर्म । वरिष्ठत्वे हेतुः—स एवं-भूतः श्वपचः सर्वं कुलं पुनाति । भूरिर् मानो गर्वो यस्य स तु विप्र आत्मानम् अपि न पुनाति, कुतः कुलम् ? यतो भक्ति-हीनस्यैते गुणा गर्वायैव भवन्ति, न तु शुद्धये । अतो हीन इति भावः ॥ इत्य् एषा ।
मुक्ता-फल-टीका [१६.२६]—द्विषट् द्वादशगुणा धनाभिजनादयः । यद् वा—
शमो दमस् तपः शौचं क्षान्त्य्-आर्जव-विरक्तयः ।ज्ञान-विज्ञान-सन्तोषः सत्यास्तिक्यंद्विषड्-गुणाः ॥इत्य् अत्रोक्ताः ॥ इत्य् एषा ।
स्कान्दे श्री-नारद-वाक्यम्—
कुलाचार-विहीनोऽपि दृढ-भक्तिर् जितेन्द्रियः ।
प्रशस्तः सर्व-लोकानां न त्व् अष्टादश-विद्यकः ।
भक्ति-हीनो द्विजः शान्तः सज्-जातिर् धर्मिकस् तथा ॥
काशी-खण्डे च—
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।
विष्णु-भक्ति-समायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥
बृहन्-नारदीये—
विष्णु-भक्ति-विहीना ये चण्डालाः परिकीर्तिताः ।
चण्डाला अपि वै श्रेष्ठा हरि-भक्ति-परायणाः ॥ [ना।प। १.३७.१२]
नारदीये च—
श्वपचोऽपि मही-पाल विष्णोर् भक्तो द्विजाधिकः ।
विष्णु-भक्ति-विहीनो यो द्विजातिः श्वपचाधिकः ॥ [ना।प। १.३३.४१] इति ।
अत्र मूल-पद्ये स-कुलं पुनाति इत्य् उक्ते स्वं पुनातीति सुतराम् एव सिद्धम् । यथोक्तं—
किरात-हूणान्ध्र-पुलिन्द-पुल्कशा
आभीर-शुम्भा यवनाः खसादयः ।
येऽन्ये च पापा यद्-अपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [भा।पु। २.४.१८] इति ।
॥ ७.९ ॥ प्रह्लादः श्री-नृसिंहम् ॥