अथ व्यतिरेकेण कर्मानादरेणाह—तत्र कर्मणः फल-प्राप्ताव् अनिश्चयवत्त्वं दुःख-रूपत्वं च, भक्तेस् तु तस्याम् आवश्यकत्वं, साधक-दशायाम् अपि सुख-रूपत्वं चेत्य् आह—
कर्मण्य् अस्मिन्न् अनाश्वासे धूम-धूम्रात्मनां भवान् ।
आपाययति गोविन्द-पाद-पद्मासवं मधु ॥ [भा।पु। १.१८.१२]
अस्मिन् कर्मणि सत्रेऽनाश्वासेऽविश्वसनीये, वैगुण्य-बाहुल्येन कृषिवत् फल-निश्चयाभावात् । अनेन भक्तेर् विश्वसनीयत्वं ध्वनितम् । धूमेन धूम्रौ विरञ्जितौ आत्मानौ शरीर-चित्ते येषां, कर्मणि षष्ठी, तान् अस्मान् इत्य् अर्थः । पाद-पद्मस्य यशो-रूपम् आसवं मकरन्दं मधु मधुरम् । अत्र सत्रवत् कर्मान्तरंयशः-श्रवणवद् भक्त्य्-अन्तरं चेति ज्ञेयम् ।
तद् एवं भक्ति-विना-भूतानां1 कर्मादिभिर् अस्माकं दुःखम् एवासीद् इति व्यतिरेकत्वम् अत्र गम्यते । तद् उक्तं—यशः-श्रियाम् एव परिश्रमः परः [भा।पु। १२.१२.५३] इत्य्-आदि, अतो वै कवयो नित्यम् [भा।पु। १.२.२२] इत्य्-आदि च । ब्रह्म-वैवर्ते च शिवं प्रति श्री-विष्णु-वाक्यम्—
यदि मां प्राप्तुम् इच्छन्ति प्राप्नुवन्त्य् एव नान्यथा ।
कलौ कलुष-चित्तानां वृथायुः-प्रभृतीनि च ।
भवन्ति वर्णाश्रमिणां न तु मच्-छरणार्थिनाम् ॥ इति ।
॥ १.१८ ॥ श्री-ऋषयः सूतम् ॥ ९९ ॥
-
भक्तिं विना ↩︎