०९८

तद् एवं तानि साधनानि भक्ति-जीवनान्य् एवेति भक्तेर् एव सर्वत्राभिधेयत्वम् । तानि विनापि भक्तेर् एव तत्र साधकत्वम् अपि दर्शितंतत्र, अकामः सर्व-कामो वा[भा।पु। २.३.१०] इत्य्-आदौ । यथाश्री-विष्णु-पुराणे (१.११.४६) पुलह-वाक्यम्—

यो यज्ञ-पुरुषो यज्ञे योगे च परमः पुमान् ।
तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दने ॥

अत एव मोक्ष-धर्मे—

या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ।

तस्मात् साधूक्तं सर्व-शास्त्र-श्रवण-फलत्वेन तद्-अभिधेयत्वम् । अत एव प्रथमं स्वयं भगवता सैव प्रवर्तितेत्य् उक्तं, कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता मया [भा।पु। ११.१४.३] इत्य्-आदिना ।

तद् एवं सति ये तु नातिकोविदाः, ते तत्-तद्-अर्थं कर्माद्य्-अङ्गत्वेनैव श्री-विष्णूपासनं कुर्वते । ततस् तद्-अपराधेन निज-कामना-मात्र-फल-प्रदत्वं तत्रानियतत्वं च तस्याः। तत्-तद्-अर्थम् अपि स्वतन्त्रत्वेन क्रियमाणाया भक्तेस् त्व् अवश्यं तत्-तत्-फल-प्रदत्वम् । न च तत्-तन्-मात्र-दानेन पर्याप्तिः, किन्तु पर्यावसाने परम-फल-प्रदत्वम् एवेति । ततस् तस्या एव परम-हितत्वेनाभिधेयत्वम् आह—

सत्यं दिशत्य् अर्थितम् अर्थितो नॄणां
नैवार्थदो यत् पुनर् अर्थिता यतः ।
स्वयं विधत्ते भजताम् अनिच्छताम्
इच्छापिधानं निज-पाद-पल्लवम् ॥ [भा।पु। ५.१९.२७]

अर्थितः प्रार्थितः सन् नॄणामर्थितंसत्यम् एव ददाति । न तत्र कदाचिद् व्यभिचार इत्य् अर्थः । किन्तु तथापि तन्-मात्रेण अर्थदो न भवति, तन्-मात्रं दत्त्वा निवृत्तो न भवतीत्य् अर्थः । यत उपासकस् तत्रापूर्णत्वाद् भोग-क्षये सति तदैव पुनर् अर्थिता भवति, न जातु कामः कामानां [भा।पु। ९.१९.१४; मनु २.९४] इत्य्-आदेः । तद् एवम् अभिप्रेत्य स तु परम-कारुणिकस् तत्-पाद-पल्लव-माधुर्य-ज्ञानेन तद् अनिच्छताम् अपि भजताम् इच्छापिधानं सर्व-काम-समापकं निज-पाद-पल्लवम्एव विधत्ते तेभ्यो ददातीत्य् अर्थः । यथा माता चर्व्यमाणां मृत्तिकां बालक-मुखाद् अपसार्य तत्र खण्डं ददाति, तद्वद् इति भावः । एवम् अप्य् उक्तंअकामः सर्व-कामो वा [भा।पु। २.३.१०] इत्य्-आदौ तीव्रत्वं भक्तेः । तथोक्तं गारुडे—

यद् दुर्लभं यद् अप्राप्तं मनसो यन् न गोचरम् ।
तद् अप्य् अप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ [ग।पु। २.२३४.१२] इति ।

एवं श्री-सनकादीनाम् अपि ब्रह्म-ज्ञानिनां भक्त्य्-अनुवृत्त्या तत्-पाद-पल्लव-प्राप्तिर् ज्ञेया॥

॥ ५.१९ ॥ देवाः परस्परम् ॥९८॥