०९७

यान्य् अन्यानि सर्वाणि तत्र पुरुषार्थ-साधनान्य् उच्यन्ते, तान्य् अपि तथैव भक्ति-मूलान्य् एव। यथा—

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं त्वच्-चरणार्चनम् ॥ [भा।पु। १०.८१.१९]

मन्त्रतस् तन्त्रतश् छिद्रम् [भा।पु। ८.२३.१६] इत्य्-आदि-न्यायेन, मुख-बाहूरु-पादेभ्यः [भा।पु। ११.५.२] इत्य्-आद्य्-उक्त-नित्यत्वेन च सर्वथा तद्-बहिर्मुखानां तु तत्-तद्-अलाभ एव स्याद् इत्य् अर्थः । यथा स्कान्दे—

विष्णु-भक्ति-विहीनानां श्रौताः स्मार्ताश् च याः क्रियाः ।
काय-क्लेशः फलं तासां स्वैरिणी-व्यभिचारवत् ॥ इति ।

तद् उक्तं श्री-युधिष्ठिरेण—

त्वत्-पादुके अविरतं परि ये चरन्ति
ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति ।
विन्दन्ति ते कमल-नाभ भवापवर्गम्
आशासते यदि त आशिष ईश नान्ये ॥ [भा।पु। १०.७२.४] इति ।

अत उक्तं बृहन्-नारदीये (१.४.४)—

यथा समस्त-लोकानां जीवनं सलिलं स्मृतम् ।
तथा समस्त-सिद्धीनां जीवनं भक्तिर् इष्यते ॥इति ।

॥ १०.८२ ॥ श्रीदाम-विप्रः ॥९७॥