०९६

यच् च तत्र ज्ञानम् अभिधीयते, तद् अपि भक्त्य्-अन्तर्-भूततयैव लभ्यम् । यथा—

पुरेह भूमन् बहवोऽपि योगिनस्
त्वद्-अर्पितेहा निज-कर्म-लब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥[भा।पु। १०.१४.५]

हे भूमन्, इह लोके पूर्वं बहवो योगिनोऽपि सन्तो योगैर् ज्ञानम् अप्राप्य पश्चात् त्वयि अर्पितेहा लौकिक्य् अपि चेष्टा । तथाअर्पितानि यानि निजानि कर्माणि, तैर् लब्धया कथा-रुचि-रूपया, पुनश् च कथोपनीतया त्वत्-समीपं प्रापितया कथनीय-रुचि-रूपया भक्त्यैवअञ्जः सुखेन विबुध्यआत्म-तत्त्वम् आरभ्य श्री-भगवत्-तत्त्व-पर्यन्तम् अनुभूय तव पराम्अन्तरङ्गां गतिं प्राप्ताः । श्री-गीतोपनिषत्सु च, अहं सर्वस्य प्रभवो मत्तः [गीता १०.८] इत्य्-आदिभिः शुद्धां भक्तिम् उपदिश्याह—

तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।
नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ [गीता १०.११] इति ।

॥ १०.१४ ॥ ब्रह्मा श्री-भगवन्तम् ॥ ९६ ॥