यतो यश् च शास्त्रे वर्णाश्रमाचारो विधीयते, तस्याप्य् अनुपम-चरितं फलं भक्तिर् एव । यथा—
दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः ।
श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भा।पु। १०.४७.२१]
दानादिभिः श्री-कृष्ण-सन्तोषार्थेर् इति ज्ञेयम् । तद् उक्तं—तज् जन्म तानि कर्माणि तद्-आयुस् तन्-मनो वचः [भा।पु। ४.३१.७] इत्य्-आदि । बृहन्-नारदीये (१.३९.५१)—
जन्म-कोटि-सहस्रेषु पुण्यं यैः समुपार्जितम् ।
तेषां भक्तिर् भवेच् छुद्धा देव-देवे जनार्दने ॥ इति ।
अगस्त्य-संहितायाम्—
व्रतोपवास-नियम-जन्म-कोट्याप्य् अनुष्ठितैः ।
यज्ञैश् च विविधैः सम्यग् भक्तिर् भवति माधवे ॥ इति ।
एतद् एव व्यतिरेकेणोक्तं—धर्मः स्वनुष्ठितः पुंसाम् [भा।पु। १.२.८] इत्य्-आदौ, यशः श्रियाम् एव [भा।पु। १२.१२.४] इत्य्-आदौ च ।
॥ १०.४७ ॥ श्री-उद्धवः श्री-व्रज-देवीः ॥९५॥