०९४

तत्रैवान्वयेन सर्व-शास्त्र-फलत्वं स-कैमुत्यम् आह—

श्रुतस्य पुंसां सुचिर-श्रमस्य
नन्व् अञ्जसा सूरिभिर् ईडितोऽर्थः ।
तत्-तद्-गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम् ॥ [भा।पु। ३.१३.४]

पुंसांश्रुतस्य वेदार्थावगतेर् अयम् एव अर्थः प्रयोजनम् ईडितः श्लाघितः । कोऽसौ ? मुकुन्दस्य पादारविन्दं येषां हृदयेषु वर्तते, तेषां तद्-गुणानां भगवद्-भक्त्य्-आत्मकानाम् अनुश्रवणं यत् सोऽयम् इति । ततः सुतराम् एव श्री-मुकुन्दस्येत्य् अर्थः । एवम् एवोक्तं—वासुदेव-परा वेदाः [भा।पु। २.२.२८] इत्य्-आदि ।

भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ [भा।पु। २.२.३४]

तथा च पाद्मे बृहत्-सहस्र-नाम्नि—

स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥इति ।

तथा च स्कान्दे प्रभास-खण्डे, लिङ्ग-पुराणे च—

आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदम् एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ [लि।पु। २.७.११]

अत एव वेदाद्य्-अर्पण-मन्त्र इति—

विद्या-तपो-ध्यान-योनिर् अयोनिर् विष्णुर् ईडितः ।
ब्रह्म-यज्ञस् ततो देवः प्रीयतां मे जनार्दनः ॥

॥ ३.१३ ॥ श्री-विदुरः ॥९४॥