तद् एवम् अस्मिन् श्रीमति महा-पुराणे गुरु-शिष्य-भावेन प्रवृत्तानाम् उपदेश-शिक्षा-वाक्येषु भक्तेर् एवाभिधेयत्वं साधितम् । तथा—
तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥[भा।पु। १.१६.६]
इत्य् अनुसारेण सर्वेषाम् इतिहासानाम् अपि तन्-मात्र-तात्पर्यत्वं ज्ञेयम् । विस्तर-भिया तु न विव्रियते । अथान्यत्र च तद् एव दृश्यते । तत्रान्वयेन यथा—
एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।
भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ [भा।पु। ६.३.२२]
पुंसां जीव-मात्राणां परो धर्मः सार्वभौमो धर्म एतावान् एव स्मृतः, नैतद् अधिकः । एतावत्त्वम् एवाह—तन्-नाम-ग्रहणादिभिर् यो भक्ति-योगः साक्षाद् भक्तिर् इति । एव-कारेणान्य-व्यावृत्तत्वं स्पष्टयति—भगवतीति । नाम-ग्रहणादीन्य् अपि यदि कर्मादौ तत्-साद्गुण्याद्य्-अर्थं प्रयुज्यन्ते, तदा तस्य परत्वं नास्ति । तुच्छ-फलार्थं प्रयुक्तत्वेन तद्-अपराधाद् इत्य् अर्थः । तथैव क्षयिष्णु-फल-दातृत्वं च भवतीति भावः ॥
॥ ६.३ ॥ श्री-यमः स्व-भटान् ॥ ९२ ॥