०९१

तथा—

अहं च संस्मारित आत्म-तत्त्वं
श्रुतं पुराणे परमर्षि-वक्त्रात् ।
प्रायोपवेशे नृपतेः परीक्षितः
सदस्य् ऋषीणां महतां च शृण्वताम् ॥ [भा।पु। १२.१२.५६]

एतत्-प्रसङ्गेनाहं चात्म-तत्त्वम् अखिलात्म-भूतं नारायणं स्मारितः । तं प्रति1 परमोत्कण्ठितीकृतोऽस्मीत्य् अर्थः । यद् आत्म-तत्त्वं मे मया महर्षि-वक्त्राच् छ्रुतम् ॥

॥ १२.१२ ॥ श्री-सूतः ॥ ८७-९१ ॥


  1. सम्प्रति इस् इन् अल्ल् बुत् छ, ज, झ, ञ। क्ल प्रेफ़ेर्स् तं प्रति। ↩︎