तथा—
यूयं द्विजाग्र्या बत भूरि-भागा
यच्-छश्वद्-आत्मन्य्-अखिलात्म-भूतम् ।
नारायणं देवम् अदेवम् ईशम्
अजस्र-भावा भजताविवेश्य ॥ [भा।पु। १२.१२.५५]
टीका च—तद् एवं श्रोतॄन् आत्मानं चाभिनन्दयन्न् आह—यूयम् इति द्वाभ्याम् । हे द्विजाग्र्याः !यद् यस्माद् आत्मन्य् अन्तःकरणे श्री-नारायणम् आविवेश्य शश्वद् भजत । सम्भावनायां लोट् । अतो भूरि-भागा बहु-पुण्यवन्तः । कथम्भूतम् ? अखिलात्म-भूतं सर्वान्तर्यामिणम्, अत एव देवं सर्वोपास्यम् । अदेवं न देवोऽन्यो यस्य तम् । कुतः? ईशम् । यद् वा, यस्माद् यूयं भूरि-भागास् तप-आदिना सम्पन्नास् ततो नारायणं भजतेति विधिः ॥इत्य् एषा ।
अत्र तप-आदि-सम्पत्तेः सार्थकत्वं नारायण-भजनेनैव भवतीति स्वाम्य्-अभिप्रायः ॥