०८८

तथा—

यशः-श्रियाम् एव परिश्रमः परो
वर्णाश्रमाचार-तपः-श्रुतादिषु ।
अविस्मृतिः श्रीधर-पाद-पद्मयोर्
गुणानुवाद-श्रवणादिभिर् हरेः ॥ [भा।पु। १२.१२.५३]

टीका च—किं च, वर्णाश्रमाचारादिषु यः परो महान् परिश्रमः, स यशो-युक्तायां श्रियाम् एव कीर्तौ सम्पदि वा केवलं, न परम-पुरुषार्थ इत्य् अर्थः । गुणानुवादादिभिस् तु श्रीधर-पाद-पद्मयोर् अविस्मृतिर् भवति ॥ इत्य् एषा ।