०८७

श्री-सूतोपदेशान्तेऽपि पञ्चभिः—

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम् ।
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भा।पु। १२.१२.५२]

टीका च—इदानीं ज्ञान-कर्मादराद् अपि भगवत्-कीर्तनादिष्व् एवादरः कर्तव्य इत्य् आह—नैष्कर्म्यंब्रह्म, तत्-प्रकाशकं यज् ज्ञानं, यतो निरञ्जनम् उपाधि-निवर्तकं, तद् अपि अच्युत-भक्ति-वर्जितं चेन् न शोभते नापरोक्ष-पर्यन्तं भवतीत्य् अर्थः॥ इत्य्-आदिका॥ [भागवतस्य १.५.१२ साङ्ख्यक-श्लोकोऽपि द्रष्टव्यः । पुनरुक्तिर् आदरात्।]