०८६

श्री-शुकोपदेशोपसंहारे च श्रवणम् उपलक्ष्य—

संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर्
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीला-कथा-रस-निषेवणम् अन्तरेण
पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ [भा।पु। १२.४.४०]

टीका च—अन्यः प्लव उत्तरण-साधनं न भवेद् उपायान्तरासम्भवात् । तत्-कथा-श्रवणम् एव यथा-शक्ति निषेव्यम्॥ इत्य् एषा । अन्यासाम् अपि भक्तीनां तत्-पूर्वकत्वेनैव प्रवृत्तेर् उपायान्तरासम्भवत्वंयुक्तम् ।

एतद्-अनन्तराध्यायश् च तादृशोपक्रमोपसंहार-मय एव ।

अत्रानुवर्ण्यतेऽभीक्ष्णं1 भगवान्2 हरिर् ईश्वरः ।
यस्य प्रसादजो ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥ [भा।पु। १२.५.१]

इत्य् उपक्रमे, 3

एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृपः ।
हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि ॥ [भा।पु। १२.५.१३]

इत्य् उपसंहारेऽपि तादृश-महिमत्वेन पूर्वोक्त-लीला-कथा-श्रवणस्यैव प्राधान्यात् । अत उपक्रमोपसंहार-निर्दिष्टत्वात् श्रवणोपलक्षित-भक्तेर् एवात्रापि प्राधान्यम् । यस् तु तन्-मध्ये त्वं तु राजन् मरिष्येति [भा।पु। १२.५.२] इत्य्-आदिना ज्ञानोपदेशः, स च तस्य या प्राग्-अवगता भक्ति-निष्ठा, तस्याः सम्प्रत्य् अपि स्थैर्य-प्रकटनार्थ एव, एकान्ति-भक्तेषु भगवता मोक्ष-वर-च्छन्दवत् पूर्वम् अपि तन्-निष्ठया स्वत एव मरण-भय-परित्यागात् । अनन्तरं च श्रुत्वापि तं ज्ञानोपदेशं स्वस्य भक्ति-निष्ठाया एव स्वयं दर्शयिष्यमाणत्वात् ।

तत्र प्राचीना तन्-निष्ठा, यथा प्रथमे, कृष्णाङ्घ्रि-सेवाम् अधिमन्यमानः [भा।पु। १.१९.५] इति, दध्यौ मुकुन्दाङ्घ्रिम् अनन्य-भावः [भा।पु। १.१९.७] इत्य्-आदि तन्-निष्ठतैव ।

तद्-भय-परित्यागो4 यथा तद्-वाक्ये—

द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ [भा।पु। १.१९.१५] इति ।

तज्-ज्ञानोपदेश-श्रवणानन्तरम् अपि तादृश-स्व-निष्ठायाः स्थैर्य-दर्शनं यथा तत्र तावत् पद्य-त्रयेण तज्-ज्ञानोपदेशम् अबहु मत्वा श्रवण-लक्षणया भक्त्यैव स्व-कृतार्थत्वम् उक्तम्—

सिद्धोऽस्म्य् अनुगृहीतोऽस्मि भवता करुणात्मना ।
श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः ॥
नात्यद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् ।
अज्ञेषु ताप-तप्तेषु भूतेषु यद्-अनुग्रहः ॥
पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् ।
यस्यां खलूत्तमःश्लोको भगवान् अनुवर्ण्यते ॥ [भा।१२.६.२-४] इति ।

पुनश् चैकेन पद्येन तद्-वाक्य-गौरव-मात्रेणाङ्गीकृतस्य ब्रह्म-ज्ञानस्य तक्षकादि-भय-निवृत्ति-हेतुत्वम् उक्त्वाप्य् अन्येन तद्-ऊर्ध्वम् अधोक्षज एव वाक्-चेतसोस् तन्-नाम-कीर्तन-ध्यानावेशानुज्ञा प्रार्थिता—

भगवंस् तक्षकादिभ्यो मृत्युं यो न बिभेम्य् अहम् ।
प्रविष्टो ब्रह्म-निर्वाणम् अभयं दर्शितं त्वया ॥
अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे ।
मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् ॥ [भा।पु। १२.६.५-६] इति ।

अथ पुनर् अन्येन पद्येनाज्ञान-निरासक-ज्ञान-विज्ञान-सिद्धिश् च भगवत्-पदारविन्द-दर्शन-सुखान्तर्भूतैव5 मम स्फुरतीति विज्ञापितम् । यथा—

अज्ञानं च निवृत्तं मे ज्ञान-विज्ञान-निष्ठया ।
भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ [१२.६.७] इति ।

अत्र पद-शब्दस्य चरणारविन्दाभिधायकत्वे, ज्ञानेन वैयासकि-शब्दितेनभेजे खगेन्द्र-ध्वज-पाद-मूलम् [भा।पु। १.१८.१६] इत्य् एवास्ति प्रथमे साधकम् । तद् एतत् प्रकरणार्थस् तत्र श्री-सूतेनैव स्पष्टीकृतः—

ब्रह्म-कोपोत्थिताद् यस् तु तक्षकात् प्राण-विप्लवात् ।
न सम्मुमोहोरु-भयाद् भगवत्य् अर्पिताशयः ॥ [भा।पु। १.१८.२]
नोत्तमश्लोक-वार्तानां जुषतां तत्-कथामृतम् ।
स्यात् सम्भ्रमोऽन्त-कालेऽपि स्मरतां तत्-पदाम्बुजम् ॥ [भा।पु। १.१८.४] इति ।

तथा पूर्वं द्वादशस्यैव तृतीये प्रथम-स्कन्धान्तः-स्थस्य—

अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा ॥ [भा।पु। १.१९.३४]

इत्य् अस्य राज-प्रश्नस्योत्तरत्वेन भगवद्-ध्यान-कीर्तने एव स्वयं श्री-शुकदेवेनाप्य् उपदिष्टे—

तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्य् अवहितस् ततो याति परां गतिम् ॥
म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः ।
आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-सम्भवः ॥
कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः ।
कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥ [भा।पु। १२.३.४८-५०] इत्य्-आदिना ।

ततस् तत्र केशवे। अवहितः कृतावधानः ।आत्म-भावम् आत्मनो भक्तिम् । अस्तु तावद् आयास-साध्यं ध्यानम्।6 हि यस्माद् अनायास-साध्यात् कीर्तनाद् एवेत्य् अर्थः ।

द्वितीय-स्कन्धेऽपि, न ह्य् अतोऽन्यः शिवः पन्था [भा।पु। २.२.३३] इत्य्-आदिना, एवम् एतन् निगदितम् [भा।पु। २.३.१] इत्य् अन्तेन ग्रन्थेन नानाङ्गवान् शुद्ध-भक्ति-योग एव तत्रोत्तरत्वेन पर्यवसितः । तत्रापि, पिबन्ति ये भगवतः [भा।पु। २.२.३७] इत्य्-आदिना लीला-कथा-श्रवण एव परम-पर्यवसानं दृश्यते । तस्मात् साधूक्तं त्वं तु राजन् मरिष्येति[१२.५.२] इत्य्-आदिकं तद्-भक्ति-निष्ठा-प्रकटनार्थम् एवेति । यतो भक्ताव् एव तद्-उपदेशस्य तात्पर्यम् ।

अत एव द्वितीयस्याष्टमे राज-प्रार्थना च नान्यथा स्यात्—कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् [भा।पु। २.८.२] इति । तद् एवं, [अत्रानुवर्ण्यतेऽभीक्ष्णं [१२.५.१] इत्य्-आद्य्-अनुसारेणापि]7 साध्व् एव स्थापितं संसार-सिन्धुम् अतिदुस्तरम् इत्य्-आदि ॥

॥ १२.४ ॥ श्री-शुकः ॥ ८६ ॥


  1. अत्रानुगीयते (छ, ज, झ) ↩︎

  2. विश्वात्मा ↩︎

  3. उपक्रम्य (च, छ, ज, ञ) ↩︎

  4. मरण-भय- (झ) ↩︎

  5. दर्शनानन्दान्तर्भूतैव (ज, य) ↩︎

  6. ज्ञानम् (य) ↩︎

  7. पिबन्ति [२.२.३७] इत्य्-आद्य्-उपक्रम-वाक्य-संवादेनापि ↩︎