अन्ते च—
एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् ।
यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ [भा।पु। ११.२९.२२]
टीका च—अतो मद्-भजनम् एव बुद्धेर् विवेकस्य मनीषायाश् चातुर्यस्य च फलम् इत्य् आह—एषेति । ताम् एव दर्शयति—सत्यम् अमृतं च । मा माम् । अनृतेन असत्येन मर्त्येन विनाशिना मनुष्य-देहेन इह अस्मिन्न् एव जन्मनि प्राप्नोति इति यत्, सैव बुद्धिर् मनीषा चेति ।बुद्धिर् विवेकः। मनीषा चातुर्यम् ॥इत्य् एषा ।
हरिश्चन्द्रो रन्तिदेव उञ्छ-वृत्तिः शिविर् बलिः ।
व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥ [भा।पु। १०.७२.१९] इति ।
पूर्वं भक्ति-प्रकरण-गतत्वाद् अत इति हेतूपन्यासः कृतः ॥
॥ ११.२९ ॥ सः [श्री-भगवान्] ॥ ८५ ॥