०८४

पृथक् पृथक् ज्ञानादि-फलेऽपि साध्ये नास्तीत्य् आह—

यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [११.२०.३२-३३]

इतरैस् तीर्थ-यात्रा-व्रतादिभिर् अपि यद् भाव्यं, तत् सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते । तत्राप्य् अञ्जसा अनायासेनैव । किं तत् सर्वम् ? तद् आह—स्वर्गापवर्गम् इति । स्वर्गः प्रापञ्चिक-सुखं, सत्त्व-शुद्ध्य्-आदि-क्रमेण अपवर्गो मोक्ष-सुखं च । तद्-अतिक्रमि-सुखं च भवतीत्य् आह—मद्-धाम वैकुण्ठं चेति । कथञ्चिद् भक्त्य्-उपकरणत्वेनैव यदि वाञ्छति कश्चित्, तत्र श्री-चित्रकेत्व्-आदिवत् स्वर्ग-वाञ्छा । तस्य भक्त्य्-उपकरणत्वं चोक्तं—स लक्षं वर्ष-लक्षाणा अव्याहत-बलेन्द्रियः [भा।पु। ६.१७.२], रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [६.१७.३] इति ।

श्री-शुकादिवदपवर्ग-वाञ्छा । तत्-प्रार्थनयाश्री-कृष्णेन1 दूरीकृतायां मायायां [सत्यां] मातृ-गर्भाद् बहिर्बभूव इति ब्रह्म-वैवर्तीय-कथा । तत्र च भक्त्य्-उपकरणत्वं ब्रह्म-भूतः प्रसन्नात्मा[गीता १८.५४] इत्य्-आदि-श्री-गीता-वचनात् । तथा प्राप्त-भगवत्-पार्षद-पद-तदीय-वृन्द-विशेषवद् वैकुण्ठेच्छा । ते हि प्रेम्णा साक्षात् श्री-भगवच्-चरणारविन्द-सेवेच्छयैव तत्-प्रार्थ्यं प्राप्तवन्तः, यच् च व्रजन्त्य् अनिमिषामृषभानु-वृत्त्या [भा।पु। ३.१५.२५] इत्य्-आदिवत् ॥

॥ ११.२० ॥ श्री-भगवान् ॥ ८१-८४॥


  1. अत्र “गो-शृङ्गोपरि-सर्षप-स्थिति-कालं व्याप्य"इत्य्-अधिक-पाठः ज, य ग्रन्थयोर् उपलभ्यते। ↩︎