तथैवाह—
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥[भा।पु। ११.२०.३१]
टीका च—तद् एवं व्यवस्थयाधिकारि-त्रयम् उक्तम् । तत्र भक्तेर् अन्य-निरपेक्षत्वाद् अन्यस्य च तत्-सापेक्षत्वाद् भक्ति-योग एव श्रेष्ठ इत्य् उपसंहरति—तस्माद् इति त्रिभिः ।मद्-आत्मनो मयि आत्मा चित्तं यस्य तस्य । श्रेयःश्रेयः-साधनम् ॥इत्य् एषा ।
अत्र प्रायो-ग्रहणस्यायं भावः । भजतां ज्ञान-वैराग्याभ्यासेन प्रयोजनं नास्त्य् एव । तत्र यथा-स्थितेऽपि सद्यो-मुक्ति-मार्गे केषांचित् क्रम-मुक्ति-मार्गे1 प्रवृत्तिर्2 जायते । तथा ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इत्य्-आदि-श्री-गीतानुसारेण यदि क्रम-भक्ति-मार्गे प्रवृत्तिः स्यात्, तदा भवत्व् इति । तद् एवं भक्तेः प्रेम-लक्षणे सर्व-फल-राजे स्व-फले नास्त्य् एव ज्ञानाद्य्-अपेक्षा ॥