भक्ति-लक्षणैस् तु—
यथा यथात्मा परिमृज्यतेऽसौ
मत्-पुण्य-गाथा-श्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् ॥ [भा।पु। ११.१४.२६]
टीका च—ननु ब्रह्म-विद् आप्नोति परम् [तै।उ। २.१.१], तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ६.१५] इत्य्-आदि-श्रुतिभ्यो ज्ञानाद् एवाविद्या-निवृत्त्या तत्-प्राप्तिर् अवगम्यते । कुतो भक्ति-योगेनेत्य् उच्यते ?तत्राह—यथा यथेति । आत्मा चित्तं परिमृज्यते शोध्यते मत्-पुण्य-गाथानांश्रवणैर् अभिधानैश् च । भक्तेरेवावान्तर-व्यापारो ज्ञानं, न पृथग् इत्य् अर्थः ॥इत्य् एषा ॥
॥ ११.१४ ॥ श्री-भगवान् ॥७७-८०॥