०७७

तद् एवं सति तस्याम् एवानेक-विध-श्रेयो-वदने हेतुम् आह—

मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ ।
श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथ-रुचि ॥ [भा।पु। ११.१४.९]

तत्-प्रकृतीनां माया-गुण-मूलत्वात्मन्-माया-मोहित-धियःअनेकान्तं नाना-विधम् । श्रेयः पुरुषार्थं तत्-साधनं च ॥