अग्रे च भक्ति-योगस्यैव प्राक्-सिद्धता, साक्षात् श्री-भगवत्-प्रवर्तितता, स्वयम् एव मुख्यता । परेषाम् अर्वाचीनता, यथा-रुचि-नाना-जन-प्रवर्तितता, तुच्छता चेति ।
यथा, श्रीमद्-उद्धव उवाच—
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः ।
तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यया ॥
भवतोदाहृतः स्वामिन् भक्ति-योगोऽनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः ॥ [भा।पु। ११.१४.१-२]
टीका च—श्रेयांसि श्रेयः-साधनानि । किं विकल्पेन प्राधान्यम्, उताहो किं वा एकस्यैव मुख्यता ?॥। एक-मुख्यता-पक्षोत्थापने कारणं—भवतेति । न अपेक्षितम् अनपेक्षा यस्मिन्, सोऽहैतुकः । अयम् अर्थः—भवता यो भक्ति-योग उक्तः, अन्ये च यानि निःश्रेयस-साधनानि वदन्ति, तेषां किं [साक्षात्] फल-साधनत्वेन प्राधान्यम् एव सर्वेषाम्, उत अङ्गाङ्गित्वम्? प्राधान्येऽपि1 सर्वेषां किं विकल्पेन तुल्य-फलत्वं ? यद् वा, कश्चिद् अस्ति विशेषः? ॥इत्य् एषा ॥
x]
अत्रोत्तरं श्री-भगवान् उवाच—
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः॥ [भा।पु। ११.१४.३]
टीका च—तत्र भक्तिर् एव महा-फलत्वेन मुख्या, अन्यानि तु स्व-स्व-प्रकृत्य्-अनुसारेण ख-पुष्प-स्थानीय-स्वर्गादि-फल-बुद्धिभिः प्राणिभिः प्राधान्येन परिकल्पितानि क्षुल्लक-फलानीति विवेक्तुं प्रकृत्य्-अनुसारेण बहुधा वेदार्थ-प्रतिपत्तिम् आह—कालेनेति सप्तभिः । मद्-अत्मको मय्य् एवात्मा चित्तं येन सः॥ इत्य् एषा ।
यद् वा, [मद्-आत्मको मत्-स्वरूप-भूतः, निर्गुणत्वेन प्रतिपादयिष्यमाणत्वात् ॥][^६७]
-
प्राधान्येनापि (य), प्राधान्येनैव (ग, च) ↩︎