०७३-७४

नन्व् एवं-भूत-भक्ति-मार्गे प्रवृत्तिर् निष्ठा वा कथं स्यात् ? इत्य् आशङ्क्य तत्र हेतुम् आह—

**सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता ।**इति ।

भक्त्या भक्ति-रुच्या भक्तो माम् उपासिता भजमानो भवति । तस्य च भक्तस्य मदीयं ब्रह्माकारं भगवद्-आकारं च सर्वम् अपि स्वरूप-विज्ञानम् अनायासेनैव भवतीत्य् आह—

स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् ॥ [भा।पु। ११.११.२५] इति ।

अञ्जसा भक्त्य्-अनुषङ्गेनैव । पदं स्वरूपम् ॥

॥ ११.११ ॥ श्री-भगवान् ॥ ६७-७४ ॥