०७२

ततश् च—

श्रद्धालुर् मत्-कथाः शृण्वन् सुभद्रा लोक-पावनीः ।
गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥
मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः ।
लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥ [भा।पु। ११.११.२३-२४]

टीका च—मद्-अर्पणेन1 कर्मभिर् विशुद्ध-सत्त्वस्यान्तरङ्गां भक्तिम् आह—श्रद्धालुरिति । इत्य् एषा ।अभिनयन्जन्म-कर्म-लीलयोर् मध्ये येऽंशा निजाभीष्ट-भाव-भक्त-गताः, तान् स्वयम् अनुकुर्वन् भगवद्-गतान् भक्तान्तर-गतांश् च तान् अन्य-द्वारानुकुर्वन्न् इत्य् अर्थः ।

किं च, यो धर्मो गो-दानादि-लक्षणस् तम् अपि मद्-अर्थे मदीय-जन्मादि-महोत्सवाङ्गत्वेनैव । यश् च कामो महा-प्रासाद-वासादि-लक्षणः, तम् अपि मद्-अर्थे मदीय-सेवाद्य्-अर्थं मन्-मन्दिर-वासादि-लक्षणत्वेनैव । यश् चार्थो धन-सङ्ग्रहः, तम् अपि मद्-अर्थे मत्-सेवा-मात्रोपयोगित्वेनैवाचरन् सेवमानः ।

मद्-अपाश्रयः आश्रयान्तर-शून्य-चेताश् च सन्, ताम् एव कथा-श्रवणादि-लक्षणां भक्तिं मयि निश्चलां सर्वदा2 अव्यभिचारिणीं लभते, तत्-सुखेन कैवल्यादाव् अप्य् अनादरात् । न च भजनीयस्य चलतया वा सा चलिष्यतीति मन्तव्यम् इत्य् आह—सनातन इति ॥


  1. मद्-अर्पणैः (र) ↩︎

  2. काल-त्रयेऽपि (ज, य) ↩︎