तद् एवं ज्ञान-मिश्रां भक्तिम् उपदिश्य, तद्-अनादरेणानुषङ्ग-सिद्ध-ज्ञान-गुणां शुद्धाम् एव भक्तिम् उपदिशति चतुर्भिः—
यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ [भा।पु। ११.११.२२]
यदीति निश्चये टीकायां, धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भा।पु। ११.४.१०] इत्य्-आदिवत् । अत्र खलु ज्ञानेच्छुर् एव प्रकृतः । श्रीमद्-उद्धवं प्रति च तादृशत्वम् आरोप्यैवेदम् उच्यते । ततश् च, श्रेयः-सृतिं भक्तिम् उदस्य ते विभो, क्लिश्यन्ति ये केवल-बोध-लब्धये, तेषाम् असौ [भा।पु। १०.१४.४] इत्य्-आदि-प्रमाणेन भक्तिं विना केवल-ज्ञान-मार्गेण ब्रह्मणि मनो धारयितुं निश्चितम् एवानीशो भवसि । ततोऽपि स्वतो ज्ञानादि-सर्व-गुण-सेवितं भक्ति-मार्गम्1 एवाश्रयेति तत्-सोपानम् उपदिशति—मयीत्य्-आदिना ॥
अथवा, प्राक्तन-भक्ति-बलाभावाद् ब्रह्म-ज्ञानेच्छुर् यदि तत्र मनो धारयितुम् अनीशः स्यात्, तदाधुनाप्य् एवं कुर्व् इति योज्यम् । समाचर अर्पय । निरपेक्षो वाञ्छान्तर-रहितः ।
-
भक्ति-योगम् (ज, य) ↩︎