०७०

तद् एवं भक्त्यैव ज्ञानं सिध्यतीत्य् उक्त्वा, तं च ज्ञान-मार्गम् उपसंहरति—

एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि ।
उपारमेत विरजं मनो मय्य् अर्प्य सर्वगे ॥ [भा।पु। ११.११.२१]

जिज्ञासया बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः [भा।पु। ११.११.१] इत्य्-आदि-पूर्वोक्त-प्रकारक-विचारेण । आत्मनि शुद्ध-जीवे । नानात्वं देवत्व-मनुष्यत्वादि-भेदम् अपोह्यएवं मल्-लीलादि-श्रवणेन मनो मयि ब्रह्माकारे सर्वगे अर्प्य धारयित्वा उपारमेत