०६८

मया हीनां वाचम् इत्य् उक्तं विवृणोति—

यस्यां न मे पावनम् अङ्ग कर्म
स्थित्य्-उद्भव-प्राण-निरोधम् अस्य ।
लीलावतारेप्सित-जन्म वा स्याद्
बन्ध्यां गिरं तां विभृयान् न धीरः ॥ [भा।पु। ११.११.२०]

यस्यां मे जगतः शोधकं चरितं न स्यात्, किं तत्? अस्य विश्वस्य स्थित्य्-आदि-रूपं तद्-धेतुर् इत्य् अर्थः। ततोऽप्य् उत्कृष्टतमत्वेन विमृष्याह—लीलावतारेषु ईप्सितं जगतः प्रेमास्पदं श्री-कृष्ण-रामादि-जन्म वा न स्यात्, तां निष्फलां गिरं वेद-लक्षणाम् अपि धीरो धीमान् न धारयेत् । तद् उक्तं श्री-नारदेन—इदं हि पुंसस् तपमः श्रुतस्य वा [भा।पु। १.५.२२] इत्य्-आदि । अत एव गीतं कलि-युग-पावनावतारेण श्री-भगवता—

श्रुतम् अप्य् औपनिषदं दूरे हरि-कथामृतम् ।
यन् न सन्ति द्रवच्-चित्त-कम्पाश्रु-पुलकादयः ॥ [पद्या। ३९] इति ।