०६७

अग्रे च ज्ञान-योगस्य केवलस्यासाध्यत्वं भक्ति-योगस्य तु सुख-साध्यत्वम् आनुषङ्गिकतया ज्ञान-जनकत्वं स्वयम् अपि पुरुषार्थत्वं चेति । यथा—

न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज् जडवन् मुनिः ॥[भा।पु। ११.११.१७]

इत्य् अन्तेन ग्रन्थेन ज्ञान-योगम् उक्त्वा भक्ति-योगम् उद्भावयितुम् आह—

शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रुतस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥ [भा।पु। ११.११.१८]

अत्र पर-ब्रह्म-पदेन पर-तत्त्व-मात्रम् उच्यते, न तु ब्रह्मत्व-भगवत्त्वादि-विवेकेनेति ज्ञेयम्, सर्वत्र तत्-सामान्यात्1 । तद् एवं शब्द-ब्रह्माभ्यासस्य पर-ब्रह्माभ्यासः प्रयोजनम् इत्य् उक्तम् । तत्र सर्वेष्व् एवांशेषु विशेषतः उपनिषद्-भागेषु शब्द-ब्रह्मणस् तत्-प्रतिपादकत्वे स्थितेऽपि तद्-विचार-कोटिभिर् अपि पर-ब्रह्म-निष्ठा न जायते, किन्तु तस्ययस्मिन्न्2 अंशे श्री-भगवद्-आकार-पर-ब्रह्म-लीलादिकं प्रतिपाद्यते तद्-अभ्यासेनैव भगवद्-आकारे च निष्ठा जायते । तद् उक्तम्—

संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर्
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीला-कथा-रस-निषेवणम् अन्तरेण
पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥[भा।पु। १२.४.४०]
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [भा।पु। १०.१४.४] इत्य्-आदि च ।


  1. तत्-साम्यात् (ग, च, य) ↩︎

  2. तस्मिन् (छ, ज, ञ, य) ↩︎