०६६

श्री-भगवद्-उद्धव-संवादेऽपि—

त्वं तु सर्वं परित्यज्य स्नेहं स्वजन-बन्धुषु
मय्य् आवेश्य मनः सम्यक् सम-दृग् विचरस्व गाम् ॥ [भा।पु। ११.७.६]

नोद्धवोऽण्व् अपि मन्-न्यूनः[भा।पु। ३.४.३१] इत्य्-आदिभिः श्रीमद्-उद्धवस्य सिद्धत्वेनैव प्रसिद्धत्वात्, तं लक्ष्यीकृत्य तद्-द्वारान्येभ्य एवोपदेशोऽयम् । एवम् अन्यत्र च ज्ञेयम् । ततश् च जहल्-लक्षणया त्वं त्वदीय-मार्गानुगतो भक्तो विचरस्व, विचरत्व् इत्य् एवार्थः । समदृक्त्वं च मां विनान्यत्र हेयोपादेयत्वाभावात् । तु-शब्दो बहिर्मुख-निवृत्त्य्-अर्थः । तेनापि पूर्वम् इदम् अभिप्रेतम्—

त्वयोपयुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥
मुनयो वात-वासनाः1 श्रमणा ऊर्ध्व-मन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥
वयं त्व् इह महायोगिन् भ्रमन्तः कर्म-वर्त्मसु ।
त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥
स्मरन्तः कीर्तयन्तश् च कृतानि गदितानि ते ।
गत्य्-उत्स्मितेक्षित-क्ष्वेलि यन् नृ-लोक-विडम्बनम् ॥ [भा।पु। ११.६.४६-५०] इति ।

॥ ११.७ ॥ श्री-भगवान् ॥६६॥


  1. वात-वासना ये मुनयो ओर् ऋषयः । ↩︎