०६५

अग्रे च पूर्वोक्त-प्रकारेण भक्तेर् एवाभिहितत्वे, भवेत् तस्य तद्-विशेष-प्रश्नोऽपि युक्तः । कस्मिन् काले[भा।पु। ११.५.१९] इत्य्-आदिना तथैवोत्तरितम् ।

कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः ।
नाना-वर्णाभिधाकारो नानैव विधिनेज्यते ॥ [भा।पु। ११.५.२०]

नानैव विधिना विविधेन मार्गेण ॥

॥ ११.५ ॥श्री-करभाजनो विदेहम् ॥६५॥