अग्रे च व्यतिरेक-मुखेन—
भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्तमाः ।
तेषाम् अशान्त-कामानां का निष्ठाऽविजितात्मनाम् ॥ [भा।पु। ११.५.१]
इत्य्-एतत्-प्रश्नोत्तरम्—
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ [भा। ११.५.२-३]
पूर्वं श्री-द्रुमिलोपदेशेऽपि1 देव-कृत-श्री-नारायण-स्तुतौ—
त्वां सेवतां सुर-कृता बहवोऽन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान्
धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ [भा।पु। ११.४.१०] इत्य् उक्तम् ।
तत्र च यज्ञे स्व-भागान् ददतः सुर-कृता विघ्ना न भवन्ति । त्वां सेवमानानां तु मात्सर्येण तत्-कृतास् ते भवन्ति, किन्तु यदि इति निश्चये यदि वेदाः प्रमाणम् इतिवन् निश्चितम् एव, त्वं तेषाम् अविता इति । त्वां सेवमानो विघ्न-मूर्ध्नि पदं च धत्ते प्रत्युत तम् एव सोपानम् इव कृत्वा व्रजतीत्य् अर्थः । तद् एवं श्रुत्वा संसार एव तिष्ठतां यत् पर्यवसानं भवेत्, तत् पृष्टं भगवन्तम्[११.५.१] इत्य्-आदिना ।
तत्रोत्तरयन् प्रथमं तेषां प्रत्यवायित्वम् आह—मुख-[११.५.२-३अ] इति पादोन-द्वयेन। पर्यवसानम् आह—स्थानात् [११.५.३ब्] इति पादेन ॥
॥ ११.५ ॥ श्री-चमसो विदेहम् ॥६४॥
-
द्रविडोपदेशेऽपि (ब् ग्रोउप्) ↩︎