अन्य-देव-दृष्टि-परित्यागार्थस् तथोपसंहारश् च— एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः । यजेद् ईश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥ [भा।पु। ११.३.५५] आत्मानं परमात्मानम् ॥ ॥११.३॥ श्रीमद्-आविर्होत्रो विदेहम् ॥६३॥