अग्रे च कर्मादीन् परिहरन् साक्षाद् भक्तिम् एव विधत्ते—
परोक्ष-वादो वेदोऽयं बालानाम् अनुशासनम् ।
कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा ॥
नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञोऽजितेन्द्रियः ।
विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः ॥
वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे ।
नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः ॥
य आशु हृदय-ग्रन्थिं निर्जिहीर्षुः परात्मनः ।
विधिना च यजेद् देवं तन्त्रोक्तेन च केशवम् ॥ [११.३.४४-४७] इत्य्-आदि ।
परोक्ष- [११.३.४४] इति टीका च—यत्रान्यथा स्थितोऽर्थः सङ्गोपयितुम् अन्यथा कृत्वोच्यते स परोक्ष-वादः । तथा च श्रुतिः—तं वा एतं चतुर्हूतं सन्तं चतुर्होतेत्य् आचक्षते परोक्षेण परोक्ष-प्रिया इव हि देवाः1[तै।ब्रा। २.३.११.४] इति । परोक्ष-वादम् एवाह—कर्म-मोक्षायेति । ननु स्वर्गाद्य्-अर्थं कर्माणि विधत्ते, न कर्म-मोक्षार्थम् ? तत्राह—बालानाम् अनुशासनं यथा तथा । अत्र दृष्टान्तः—अगदम् औषधम् । यथा पिता बालम् अगदं पाययन् खण्ड-लड्डुकादिभिः प्रलोभयन् पाययति ददाति च तानि खण्ड-लड्डुकादीनि, नैतावता अगदस्य तल्-लाभः प्रयोजनम् अपि त्व् आरोग्यम्, तथा वेदोऽप्य् अवान्तर-फलैः प्रलोभयन् कर्म-मोक्षायैव कर्माणि विधत्ते ॥ इत्य् एषा ।
नाचरेद् [११.३.४५] इति टीका च—ननु कर्म-मोक्षश् चेत् पुरुषार्थः, तर्हि प्रथमम् एव कर्म त्यज्यताम् ? अत आह—नाचरेत् ॥ इत्य् एषा ।
अज्ञो न विद्यते ज्ञा श्री-भगवतः कथा-श्रवणादौ श्रद्धा-लक्षणा धी-वृत्तिर् यस्य सः । अत एव तस्मिन् न प्रवर्तत इत्य् अर्थः । तथैव अजितेन्द्रियो ब्रह्म-जिज्ञासुः सन् पारमेष्ठ्य-पर्यन्त-भोगे विरक्तो वा न भवतीत्य् अर्थः । तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदौ परस्पर-निरपेक्षयोः श्रद्धा-विरक्तयोर् द्वयोर् एव तत्-तन्-मर्यादात्वेनोक्तेः । विकर्मणा विहिताकरण-रूपेण मृत्योर् अनन्तरं मृत्युं मरण-तुल्यां यातनाम् उपैति । पुनः पुनर् मरणम् उपैति यातनान् चोपैतीत्य् अर्थः । अतस् तेषां विहित-कर्म-त्यागे कथञ्चिन् न निस्तारः ।
ईश्वर-प्रयोजक-कर्तृकस्य कर्मणः ईश्वरार्पण-लक्षण-यथार्थानुष्ठानेन तत्-प्रसादे त्व् असौ सुतराम् एवं स्याद् इत्य् आह—वेदोक्तम् [११.३.४६] इति । तस्माद् वेदोक्तम् एव कुर्वाणो न तु निषिद्धम् । नैष्कर्म्यां कर्म-बन्धागोचरता-रूपां सिद्धिं लभते ।
ननु कर्मणि क्रियमाणे तस्मिन्न् आसक्तिस् तत्-फलं च स्यात्, न तु नैष्कर्म्य-रूपा सिद्धिः ? अत आह—निःसङ्गोऽनभिनिवेशवान् । ईश्वरे तन्-निमित्तम् एव तत्रार्पितं, न तु फलोद्देशेन ।
ननु फलस्य श्रुतत्वात् कर्मणि कृते फलं भवेद् एव ? न, रोचनार्था इति कर्मणि रुच्य्-उत्पादनार्था अगद-पाने खण्ड-लड्डुकादिवत् । ततश् च कर्माभिरुच्या वेदार्थं सम्यग् विचारयति । अथ च—यो वा एतद् अक्षरम् अविदित्वा गार्ग्य् अस्माल् लोकात् प्रैति स कृपणः [बृ।आ।उ। ३.८.१०] इत्य् अनेनाब्रह्मज्ञस्य कृपणतां, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन2[बृ।आ।उ। ४.४.२२] इत्य्-आदिना यज्ञादीनां ज्ञान-शेषतां चावधार्य निष्कामेषु कर्मसु प्रवर्तते । ततः स्वर्ग-कामो यजेत इत्य्-आदिभिः कामितस्यैव स्वर्गादेः फलत्वेनावगमाद् अकामितोऽसौ न भवतीति नैष्कर्म्य-सिद्धिः स्वत एव भवतीति स्थिते किम् उत श्रीमद्-ईश्वरार्पणेन तत्-प्रसादे सतीत्य् अर्थः ।
तद् एवं विलम्बेनैव नैष्कर्म्य-सिद्धेर् हेतुम् उक्त्वा, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१४] इति न्यायेन सर्व-धर्म-पर्याप्ति-हेतुंनैष्कर्म्य-सिद्धि-साध्य-हृदय-ग्रन्थि-भेदस्यापि शीघ्रोपायं स्वातन्त्र्येनाह—य आशु [११.३.४७] इति । य आशु शीघ्रम् एव देह-द्वयात् परस्यात्मनो जीवस्य हृदय-ग्रन्थिं देहाहङ्कारं निर्हर्तुम् इच्छुर् भवति, स त्व् अन्यत् कर्मादिकं स्वरूपत एव त्यक्त्वा तन्त्रोक्तेनआगम-मार्गेण, च-कारात् वेदोक्तेन च विधिना प्रकारेण केशवं देवम् अर्चयेत् ॥