ननु तथापि मनो-निरोध-रूपेण योगाभ्यासेन भक्ति-कैवल्य-व्यभिचारः स्याद् इत्य् आशङ्क्य भक्त्यैव क्रियमाणया तद्-आसक्तत्वेन स्वत एव मनो-निरोधोऽपि स्याद् इति तन्-मात्रतोपायम् आह द्वितीयेन—
शृण्वन् सुभद्राणि रथाङ्ग-पाणेर्
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तद्-अर्थकानि
गायन् विलज्जो विचरेद् असङ्गः ॥ [भा।पु। ११.२.३९]
टीका च—तद्-अर्थकाणि तानि जन्मानि कर्माणि चार्थो येषां तानि नामानि । एतान्य् अपि साकल्येन ज्ञातुम् अशक्यानीत्य् आशङ्क्याह—यानि लोके गीतानि प्रसिद्धानि, तानि शृण्वन् गायंश् च विचरेत् । असङ्गो निःस्पृहः ॥ इत्य् एषा ॥
॥ ११.२ ॥ श्री-कविर् विदेहम् ॥ ५९-६१ ॥