०६०

तत्र यद्यपि कायेन वाचा मनसेन्द्रियैर् वा [भा।पु। ११.२.३६] इत्य्-आदि-प्राक्तन-वाक्ये लौकिकस्यापि कर्मणो भगवद्-अर्पणाद् भागवत-धर्मत्वं सिध्यतीति यथोक्तं1 नैरन्तर्यम् अपि सम्भवति । तथापि श्रवण-कीर्तनादि-लक्षण-मात्रत्वं व्याहन्येत, तस्मात् तत्राव्यभिचारित्वं, तन्-मात्रत्वं च यथा भवेत्, तथोपायं तद्-अनन्तरम् आह द्वाभ्याम् । तत्र प्रथमम् अव्यभिचारित्वोपायम् आह प्रथमेन—

अविद्यमानोऽप्य् अवभाति हि द्वयो
ध्यातुर् धिया स्वप्न-मनोरथौ यथा ।
तत्कर्म-संकल्प-विकल्पकं मनो
बुधो निरुन्ध्याद् अभयं ततः स्यात् ॥ [भा।पु। ११.२.३८]

द्वयः प्रधानादि-द्वैत-प्रपञ्चः । यद्य्अप्यविद्यमान आत्मनि शुद्धे न विद्यत एवेत्य् अर्थः, तथापि ध्यातुर् अविद्यामय-ध्यान-युक्तस्य सतस् तस्य धिया अवभाति, तस्मिन् शुद्धेऽपि कल्प्यत एवेत्य् अर्थः । यथा स्वप्नो मनोरथश् च तथेत्य् अर्थः । तत् तस्मात्। कर्माणि सङ्कल्पयति विकल्पयति च यन् मनस् तन् नियच्छेत् । ततश् चाव्यभिचारिण्या भक्त्या भजनाद् अभयं स्याद् इति भावः ॥


  1. य इन्सेर्त्स् तस्य, प् तथाछ, झ हवे नोथिन्ग् हेरे। ↩︎