०५९-६०

जायन्तेयोपाख्यानेऽपि अत आत्यन्तिकं क्षेमं पृच्छामः[भा।पु। ११.२.२८] इत्य् अस्योत्तरम्—

मन्येऽकुतश्चिद् भयम् अच्युतस्य
पादाम्बुजोपासनम् अत्र नित्यम् ।
उद्विग्न-बुद्धे रसदात्म-भावाद्
विशात्मना यत्र निवर्तते भीः ॥ [भा।पु। ११.२.३३]

टीका च—प्रथमम् आत्यन्तिकं क्षेमं कथयति—मन्येइत्य्-आदिका । पुनश् च धर्मान् भागवतान् ब्रूते [भा।पु। ११.२.३१] इत्युत्तरत्वेन, ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये [भा।पु। ११.२.३४] इत्य्-आदि-पद्य-त्रयम् उक्त्वा, भयं द्वितीयाभिनिवेशतः स्यात्[भा।पु। ११.२.३७]इत्य्-आदि-पद्ये बुध आभजेत् तं भक्त्यैकयेशम् इत्य् अत्र _भक्त्या_इत्य् अनेन तस्या ज्ञानाद्य्-अमिश्र-श्रवण-कीर्तनादि-लक्षणत्वम् । _एकया _इत्य् अनेन नैरन्तर्य-लक्षणम् अव्यभिचारित्वं चोपदिष्टम् ॥