वर्णाश्रमाचार-कथनारम्भे नर-मात्र-धर्म-कथनेऽपि—
धर्म-मूलं हि भगवान् सर्व-वेदमयो हरिः ।
स्मृतं च तद्-विदां राजन् येन चात्मा प्रसीदति ॥ [भा।पु। ७.११.७]
धर्मस्य मूलं प्रमाणं भगवान् । यतः सर्व-वेदमयः । स्मृतं स्मृतिश् च, तद्-विदां वेदमय-भगवद्-विदां, तस्य प्रमाणम् । आभ्यां तद्-बहिर्मुख-धर्मस्यापार्थत्वं भगवद्-धर्मस्यैवावश्यकत्वं चोक्तम् । अत एव—
वेदोऽखिलो धर्म-मूलं स्मृति-शीले च तद्-विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ [मनु २.६]
इति मनुस्मृति-वाक्याद् अप्य् अत्र विशिष्टतयोपदिष्टम् । तच् च युक्तम्—
धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् । [भा।पु। १.१.२] इत्य् उक्तत्वात् ।
येनैव धर्मेण मनः प्रसीदति इत्य् अनेन येनात्मा सुप्रसीदति [१.२.५] इतिवत् सु-शब्द-विशिष्टतयानुक्तत्वात् तच्-छ्रवणादि-लक्षण-साक्षाद्-भक्तेर् एव प्रशस्तत्वं च बोधितम् । तत्-तत्-सर्व-धर्म-कथनान्ते तु स्वयम् एव स्वस्य तृतीये1 गन्धर्व-जातौ जन्मन्य् आनुषङ्गिकं भगवद्-गान-मात्रं2 सत्-कर्मोक्त्वा, द्वितीये च शूद्र-जातौ जन्मनि सत्-सङ्गज-श्रवणादि-मात्रं तद् उक्त्वा, स्वस्य तादृश-भगवत्-पार्षदत्व-पर्यन्त-फल-प्राप्तौ तथाविधम् अपि स्व-धर्म-लक्षणं कारणान्तरं नादृतवान् ।
तथा हि तत्रैव—यथा हियूयम् [भा।पु। ७.१५.६८]3 इत्य् अस्य टीका च—एतच् च सर्व-साधारणम् उक्तम् । भक्तस्य तु भक्तिर् एव सर्व-पुरुषार्थ-हेतुर् इति पाण्डवान् एव लक्ष्यीकृत्याह—यथा हि ॥ इत्य् एषा । तस्माद् अत्रापि साक्षात् भक्ताव् एव तात्पर्यम् ।
अथात्र त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वोऽथ पतेत् ततो यदि [भा।पु। १.५.१७] इत्य्-आदौ भक्तेर् धर्मातिरिक्तत्वेऽपि, श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः[भा।पु। ७.११.११] इत्य्-आदिनोत्तर-ग्रन्थे धर्मत्व-विधानं सर्वेष्व् अपि प्राणिष्व् आवश्यकत्वापेक्षया परम-श्रेयो-रूपत्वापेक्षया च लाक्षणिकम् एव । वस्तुतस् तु पञ्चमे तत्रापि [भा।पु। ५.९.३] इत्य्-आदि-गद्ये, भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण- इत्य्-आदिना श्री-जड-भरतस्य या भक्ति-निष्ठोक्ता, तस्या पितर्य् उपरत [भा।पु। ५.९.७] इत्य्-आदि-गद्ये, त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न पर-विद्यायाम् इत्य्-आदिना तद्-अवज्ञातॄणां तद्-भ्रातॄणाम् अज्ञत्व-बोधनेन धर्मातिरिक्तत्वं पर-विद्यात्वं च बोधितम् । अत एवोक्तं श्री-नारसिंहे—
सनकाद्या निवृत्ताख्ये तेन4 धर्मे नियोजिताः ।
प्रवृत्ताख्ये मरीचाद्या मुक्त्वैकं नारदं मुनिम् ॥ [ना।प। ४.४] इति ।
तेन ब्रह्मणेति प्राकरणिकम् । तथा लक्षणा-मय-कष्ट-कल्पनया श्रवणादीनां स्व-धर्मान्तर्-गणना च बहिर्मुखानाम् अपि साक्षाद्-भक्ति-प्रवर्तनायैव । एवम् अन्यत्राप्य् अन्य-मिश्र-भक्त्य्-उपदेश-वाक्येषु ज्ञेयम् । तस्माद् अपि भक्ताव् एव तात्पर्यम् इति ॥
॥ ७.११ ॥ श्री-नारदो युधिष्ठिरम् ॥५८॥