०५७

अग्रे च, गुरु-शुश्रूषया भक्त्या [भा।पु। ७.७.३०] इत्य्-आदिभिस् तस्यैवोपायस्याङ्गान्य् उक्त्वाह—

एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे ।
वासुदेवे भगवति यया संलभ्यते रतिः ॥ [भा।पु। ७.७.३३]

एवं पूर्वोक्त-गुरु-शुश्रूषादि-प्रकारेणैव, न तु तद्-अर्थं पृथक्-प्रयत्नेन । **निर्जित-**कर्म-बीज-लक्षण-काम-क्रोध-लोभ-मोह-मद-मात्सर्यैर् जनैः पुनर् अपि भक्तिः क्रियत एव ॥1

॥ ७.७ ॥ प्रह्लादस् तान् ॥५६-५७॥


  1. यथा वासुदेवे रतिर् अपि संलभ्यत इत्य् अर्थः इति अतिरिक्त-पाठः (ज, य) ↩︎